स्कन्ध 3, अध्याय 16: युधाजिद्भारद्वाजयोः संवादवर्णनम्, Verse 1
३.१६ षोडशोऽध्यायः ।
युधाजिद्भारद्वाजयोः संवादवर्णनम् ।
व्यास उवाच ।
युधाजित्त्वथ सङ्ग्रामाद्गत्वाऽयोध्यां महाबलः ।
मनोरमां च पप्रच्छ सुदर्शनजिघांसया ॥ १॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.१६ षोडशोऽध्यायः ।
युधाजिद्भारद्वाजयोः संवादवर्णनम् ।
व्यास उवाच ।
युधाजित्त्वथ सङ्ग्रामाद्गत्वाऽयोध्यां महाबलः ।
मनोरमां च पप्रच्छ सुदर्शनजिघांसया ॥ १॥
सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन् ।
शुभे दिनेऽथ दौहित्रं स्थापयामास चासने ॥ २॥
मन्त्रिभिश्च वसिष्ठेन मन्त्रैराथर्वणैः शुभैः ।
अभिषिक्तश्च सम्पूर्णैः कलशैर्जलपूरितैः ॥ ३॥
भेरीशङ्खनिनादैश्च तूर्याणां चाथ निःस्वनैः ।
उत्सवस्तु नगर्या वै सम्बभूव कुरूद्वह ॥ ४॥
विप्राणां वेदपाठैश्च बन्दिनां स्तुतिभिस्तथा ।
अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलैः ॥ ५॥
हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना ।
नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा ॥ ६॥
केचित्साधुजना ये वै चक्रुः शोकं गृहे स्थिताः ।
सुदर्शनं विचिन्त्याद्य क्व गतोऽसौ नृपात्मजः ॥ ७॥
मनोरमातिसाध्वी सा क्व गता सुतसंयुता ।
पिताऽस्या निहतः सङ्ख्ये राज्यलोभेन वैरिणा ॥ ८॥
इत्येवं चिन्त्यमानास्ते साधवः समबुद्धयः ।
अतिष्ठन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः ॥ ९॥
युधाजिदपि दौहित्रं स्थापयित्वा विधानतः ।
राज्यञ्च मन्त्रिसात्कृत्वा चलितः स्वां पुरीं प्रति ॥ १०॥
श्रुत्वा सुदर्शनं तत्र मुनीनामाश्रमे स्थितम् ।
हन्तुकामो जगामाशु चित्रकूटं स पर्वतम् ॥ ११॥
निषादाधिपतिं शूरं पुरस्कृत्य बलाभिधम् ।
दुर्दर्शाख्यमगादाशु शृङ्गवेरपुराधिपम् ॥ १२॥
श्रुत्वा मनोरमा तत्र बभूवातिसुदुःखिता ।
आगच्छन्तं बालपुत्रा भयार्ता सैन्यसंयुतम् ॥ १३॥
तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना ।
किं करोमि क्व गच्छामि युधाजित्समुपस्थितः ॥ १४॥
पिता मे निहतोऽनेन दौहित्रो भूपतिः कृतः ।
सुतं मे हन्तुकामोऽत्र समायाति बलान्वितः ॥ १५॥
पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः ।
मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा ॥ १६॥
गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते ।
द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥ १७॥
धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः ।
च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः ॥ १८॥
वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः ।
राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः ॥ १९॥
एते चान्ये च मुनयो भारद्वाजादयः शुभाः ।
वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः ॥ २०॥
दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने ।
आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते ॥ २१॥
पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्वनम् ।
धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः ॥ २२॥
तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः ।
आगतश्चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम् ॥ २३॥
श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् ।
उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः ॥ २४॥
यदा निरगमत्तत्र भृत्यद्वयसमन्वितः ।
वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः ॥ २५॥
कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः ।
आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह ॥ २६॥
तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा ।
आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम् ॥ २७॥
तासां मध्ये वरारोहा याज्ञसेनी समागता ।
जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा ॥ २८॥
तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् ।
पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना ॥ २९॥
भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी ।
रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता ॥ ३०॥