स्कन्ध 3, अध्याय 15: मनोरमया भारद्वाजाश्रमं प्रति गमनम्, Verse 1
३.१५ पञ्चदशोऽध्यायः ।
मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।
व्यास उवाच ।
संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः ।
क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः ॥ १॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.१५ पञ्चदशोऽध्यायः ।
मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।
व्यास उवाच ।
संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः ।
क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः ॥ १॥
संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित् ।
संयुतः स्वबलवाहनादिकैराहवाय कृतनिश्चयो नृपः ॥ २॥
वीरसेन इह सैन्यसंयुतः क्षात्रधर्ममनुसृत्य सङ्गरे ।
पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः ॥ ३॥
स बाणवृष्टिं विससर्ज पार्थिवो युधाजितं वीक्ष्य रणे स्थितञ्च ।
गिरिं तडित्वानिव तोयवृष्टिभिः क्रोधान्वितः सत्यपराक्रमोऽसौ ॥ ४॥
तं वीरसेनो विशिखैः शिलाशितैः समावृणोदाशुगमैरजिह्मगैः ।
चिच्छेद बाणैश्च शिलीमुखानसौ तेनैव मुक्तानतिवेगपातिनः ॥ ५॥
गजरथतुरगाणां सम्बभूवातियुद्धं सुरनरमुनिसङ्घैर्वीक्षितञ्चातिघोरम् ।
विततविहगवृन्दैरावृतं व्योम सद्यः पिशितमशितुकामैः कामगृध्रादिभिश्च ॥ ६॥
तत्राद्भुता क्षतजसिन्धुरुवाह घोरा वृन्देभ्य एव गजवीरतुरङ्गमाणाम् ।
त्रासावहा नयनमार्गगता नराणां पापात्मनां रविजमार्गभवेव कामम् ॥ ७॥
कीर्णानि भिन्नपुलिने नरमस्तकानि केशावृतानि च विभान्ति यथैव सिन्धौ ।
तुम्बीफलानि विहितानि विहर्तुकामै- र्बालैर्यथा रविसुताप्रभवैश्च नूनम् ॥ ८॥
वीरं मृतं भुवि गतं पतितं रथाद्वै गृध्रः पलार्थमुपरि भ्रमतीति मन्ये ।
जीवोऽप्यसौ निजशरीरमवेक्ष्य कान्तं काङ्क्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टुम् ॥ ९॥
आजौ हतोऽपि नृवरः सुविमानरूढः स्वाङ्के स्थितां सुरवधूं प्रवदत्यभीष्टम् ।
पश्याधुना मम शरीरमिदं पृथिव्यां बाणाहतं निपतितं करभोरु कान्तम् ॥ १०॥
एको हतस्तु रिपुणैव गतोऽन्तरिक्षं देवाङ्गनां समधिगम्य युतो विमाने ।
तावत्प्रिया हुतवहे सुसमर्प्य देहं जग्राह कान्तमबला सबला स्वकीया ॥ ११॥
युद्धे मृतौ च सुभटौ दिवि सङ्गतौ ता- वन्योन्यशस्त्रनिहतौ सह सम्प्रयातौ ।
तत्रैव जघ्नतुरलं परमाहितास्त्रा- वेकाप्सरोऽर्थविहतौ कलहाकुलौ च ॥ १२॥
कश्चिद्युवा समधिगम्य सुराङ्गनां वै रूपाधिकां गुणवतीं किल भक्तियुक्तः ।
स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ तां प्रेमदामनुचकार च योगयुक्तः ॥ १३॥
भौमं रजोऽतिविततं दिवि संस्थितञ्च रात्रिं चकार तरणिञ्च समावृणोद्यत् ।
मग्नं तदेव रुधिराम्बुनिधावकस्मात् प्रादुर्बभूव रविरप्यतिकान्तियुक्तः ॥ १४॥
कश्चिद्गतस्तु गगनं किल देवकन्यां सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् ।
नाङ्गीचकार चतुरो व्रतनाशभीतो यास्यत्ययं मम वृथा ह्यनुकूलशब्दः ॥ १५॥
सङ्ग्रामे संवृते तत्र युधाजित्पृथिवीपतिः ।
जघान वीरसेनं तं बाणैस्तीव्रैः सुदारुणैः ॥ १६॥
निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः ।
प्रभग्नं तद्बलं सर्वं निर्गतं च चतुर्दिशम् ॥ १७॥
मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि ।
भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन् ॥ १८॥
हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः ।
राज्यलोभेन पापात्मा सेति चिन्तापराभवत् ॥ १९॥
किं करोमि क्व गच्छामि पिता मे निहतो रणे ।
भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः ॥ २०॥
लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः ।
किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः ॥ २१॥
पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् ।
हन्ति लोभसमाविष्टो जनो नात्र विचारणा ॥ २२॥
अभक्ष्यभक्षणं लोभादगम्यागमनं तथा ।
करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः ॥ २३॥
न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः ।
यदाधारे स्थिता चाहं पालयामि सुतं शुभम् ॥ २४॥
हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः ।
न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम् ॥ २५॥
सापि वैरयुता कामं सपत्नी सर्वदा भवेत् ।
लीलावती न मे पुत्रे भविष्यति दयावती ॥ २६॥
युधाजिति समायाते न मे निःसरणं भवेत् ।
ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति ॥ २७॥
श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः ।
कृन्तितः सप्तधा पश्चात्कृतास्ते सप्त सप्तधा ॥ २८॥
प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् ।
एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि ॥ २९॥
सपत्न्यै गरलं दत्तं सपत्न्या नृपभार्यया ।
गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम् ॥ ३०॥