स्कन्ध 3, अध्याय 14: युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम्, Verse 1
३.१४ चतुर्दशोऽध्यायः ।
युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।
जनमेजय उवाच ।
श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज ।
महिमानं तथाम्बाया वद विस्तरतो मम ॥ १॥
Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.१४ चतुर्दशोऽध्यायः ।
युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।
जनमेजय उवाच ।
श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज ।
महिमानं तथाम्बाया वद विस्तरतो मम ॥ १॥
श्रुत्वा देव्याश्चरित्रं वै कुर्वे मखमनुत्तमम् ।
प्रसादात्तव विप्रेन्द्र भविष्यामि च पावनः ॥ २॥
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् ।
इतिहासं पुराणञ्च कथयामि सुविस्तरम् ॥ ३॥
कोसलेषु नृपश्रेष्ठः सूर्यवंशसमुद्भवः ।
पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः ॥ ४॥
धर्मात्मा सत्यसन्धश्च वर्णाश्रमहिते रतः ।
अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः ॥ ५॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः ।
स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन् ॥ ६॥
न चौराः पिशुना धूर्तास्तस्य राज्ये च कुत्रचित् ।
दम्भाः कृतघ्ना मूर्खाश्च वसन्ति किल मानवाः ॥ ७॥
एवं वै वर्तमानस्य नृपस्य कुरुसत्तम ।
द्वे पत्न्यौ रूपसम्पन्ने ह्यासतुः कामभोगदे ॥ ८॥
मनोरमा धर्मपत्नी सुरूपाऽतिविचक्षणा ।
लीलावती द्वितीया च साऽपि रूपगुणान्विता ॥ ९॥
विजहार सपत्नीभ्यां गृहेषूपवनेषु च ।
क्रीडागिरौ दीर्घिकासु सौधेषु विविधेषु च ॥ १०॥
मनोरमा शुभे काले सुषुवे पुत्रमुत्तमम् ।
सुदर्शनाभिधं पुत्रं राजलक्षणसंयुतम् ॥ ११॥
लीलावत्यपि तत्पत्नी मासेनैकेन भामिनी ।
सुषुवे सुन्दरं पुत्रं शुभे पक्षे दिने तथा ॥ १२॥
चकार नृपतिस्तत्र जातकर्मादिकं द्वयोः ।
ददौ दानानि विप्रेभ्यः पुत्रजन्मप्रमोदितः ॥ १३॥
प्रीतिं तयोः समां राजा चकार सुतयोर्नृप ।
नृपश्चकार सौहार्देष्वन्तरं न कदाचन ॥ १४॥
चूडाकर्म तयोश्चक्रे विधिना नृपसत्तमः ।
यथाविभवमेवासौ प्रीतियुक्तः परन्तपः ॥ १५॥
कृतचूडौ सुतौ कामं जह्रतुर्नृपतेर्मनः ।
क्रीडमानावुभौ कान्तौ लोकानामनुरञ्जकौ ॥ १६॥
तयोः सुदर्शनो ज्येष्ठो लीलावत्याः सुतः शुभः ।
शत्रुजित्संज्ञकः कामं चाटुवाक्यो बभूव ह ॥ १७॥
नृपतेः प्रीतिजनको मञ्जुवाक्चारुदर्शनः ।
प्रजानां वल्लभः सोऽभूत्तथा मन्त्रिजनस्य वै ॥ १८॥
तथा तस्मिन्नृपः प्रीतिञ्चकार गुणयोगतः ।
मन्दभाग्यान्मन्दभावो न तथा वै सुदर्शने ॥ १९॥
एवं गच्छति काले तु ध्रुवसन्धिर्नृपोत्तमः ।
जगाम वनमध्येऽसौ मृगयाभिरतः सदा ॥ २०॥
निघ्नन्मृगान् रुरून्कम्बून्सूकरान्गवयाञ्छशान् ।
महिषाञ्छरभान्खड्गांश्चिक्रीड नृपतिर्वने ॥ २१॥
क्रीडमाने नृपे तत्र वने घोरेऽतिदारुणे ।
उदतिष्ठन्निकुञ्जात्तु सिंहः परमकोपनः ॥ २२॥
राज्ञा शिलीमुखेनादौ विद्धः क्रोधवशं गतः ।
दृष्ट्वाग्रे नृपतिं सिंहो ननाद मेघनिःस्वनः ॥ २३॥
कृत्वा चोर्ध्वं स लाङ्गूलं प्रसारितबृहत्सटः ।
हन्तुं नृपतिमाकाशादुत्पपातातिकोपनः ॥ २४॥
नृपतिस्तरसा वीक्ष्य दधारासिं करे तदा ।
वामे चर्म समादाय स्थितः सिंह इवापरः ॥ २५॥
सेवकास्तस्य ये सर्वे तेऽपि बाणान्पृथक्पृथक् ।
अमुञ्चन्कुपिताः कामं सिंहोपरि रुषान्विताः ॥ २६॥
हाहाकारो महानासीत्सम्प्रहारश्च दारुणः ।
उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥ २७॥
तं पतन्तं समालोक्य खड्गेनाभ्यहनन्नृपः ।
सोऽपि क्रूरैर्नखाग्रैश्च तत्रागत्य विदारितः ॥ २८॥
स नखैराहतो राजा पपात च ममार वै ।
चुक्रुशुः सैनिकास्ते तु निर्जघ्नुर्विशिखैस्तदा ॥ २९॥
मृतः सिंहोऽपि तत्रैव भूपतिश्च तथा मृतः ।
सैनिकैर्मन्त्रिमुख्याश्च तत्रागत्य निवेदिताः ॥ ३०॥