स्कन्ध 3, अध्याय 12: अम्बायज्ञविधिवर्णनम्, Verse 1
३.१२ द्वादशोऽध्यायः ।
अम्बायज्ञविधिवर्णनम् ।
राजोवाच ।
वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः ।
श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः ॥ १॥
Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.१२ द्वादशोऽध्यायः ।
अम्बायज्ञविधिवर्णनम् ।
राजोवाच ।
वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः ।
श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः ॥ १॥
पूजाविधिं च मन्त्रांश्च होमद्रव्यमसंशयम् ।
ब्राह्मणाः कतिसङ्ख्याश्च दक्षिणाश्चतथा पुनः ॥ २॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि देव्या यज्ञं विधानतः ।
त्रिविधं तु सदा ज्ञेयं विधिदृष्टेन कर्मणा ॥ ३॥
सात्त्विकं राजसं चैव तामसं च तथापरम् ।
मुनीनां सात्त्विकं प्रोक्तं नृपाणां राजसं स्मृतम् ॥ ४॥
तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झितम् ।
विमुक्तानां ज्ञानमयं विस्तरात्प्रब्रवीमि ते ॥ ५॥
देशः कालस्तथा द्रव्यं मन्त्राश्च ब्राह्मणास्तथा ।
श्रद्धा च सात्वकी यत्र तं यज्ञं सात्त्विकं विदुः ॥ ६॥
द्रव्यशुद्धिः क्रियाशुद्धिर्मन्त्रशुद्धिश्च भूमिप ।
भवेद्यदि तदा पूर्णं फलं भवति नान्यथा ॥ ७॥
अन्यायोपार्जितेनैव कर्तव्यं सुकृतं कृतम् ।
न कीर्तिरिह लोके च परलोके न तत्फलम् ॥ ८॥
तस्मान्न्यायार्जितेनैव कर्तव्यं सुकृतं सदा ।
यशसे परलोकाय भवत्येव सुखाय च ॥ ९॥
प्रत्यक्षं तव राजेन्द्र पाण्डवैस्तु मखः कृतः ।
राजसूयः क्रतुवरः समाप्तवरदक्षिणः ॥ १०॥
यत्र साक्षाद्धरिः कृष्णो यादवेन्द्रो महामनाः ।
ब्राह्मणाः पूर्णविद्याश्च भारद्वाजादयस्तथा ॥ ११॥
कृत्वा यज्ञं सुसम्पूर्णं मासमात्रेण पाण्डवैः ।
प्राप्तं महत्तरं कष्टं वनवासश्च दारुणः ॥ १२॥
पीडनञ्चैव पाञ्चाल्यास्तथा द्यूते पराजयः ।
वनवासो महत्कष्टं क्व गतं मखजं फलम् ॥ १३॥
दासत्वञ्च विराटस्य कृतं सर्वमहात्मभिः ।
कीचकेन परिक्लिष्टा द्रौपदी च प्रमद्वरा ॥ १४॥
आशीर्वादा द्विजातीनां क्व गताः शुद्धचेतसाम् ।
भक्तिर्वा वासुदेवस्य क्व गता तत्र सङ्कटे ॥ १५॥
न रक्षिता तदा बाला केनापि द्रुपदात्मजा ।
प्राप्तकेशग्रहा काले साध्वी च वरवर्णिनी ॥ १६॥
किमत्र चिन्तनीयं वै धर्मवैगुण्यकारणम् ।
केशवे सति देवेशे धर्मपुत्रे युधिष्ठिरे ॥ १७॥
भवितव्यमिति प्रोक्ते निष्फलः स्यात्तदागमः ।
वेदमन्त्रास्तथान्ये च वितथाः स्युरसंशयम् ॥ १८॥
साधनं निष्फलं सर्वमुपायश्च निरर्थकः ।
भवितव्यं भवत्येव वचने प्रतिपादके ॥ १९॥
आगमोऽप्यर्थवादः स्यात्क्रियाः सर्वा निरर्थकाः ।
स्वर्गार्थञ्च तपो व्यर्थं वर्णधर्मश्च वै तथा ॥ २०॥
सर्वं प्रमाणं व्यर्थं स्याद्भवितव्ये कृते हृदि ।
उभयञ्चापि मन्तव्यं दैवं चोपाय एव च ॥ २१॥
कृते कर्मणि चेत्सिद्धिर्विपरिता यदा भवेत् ।
वैगुण्यं कल्पनीयं स्यात्प्राज्ञैः पण्डितमौलिभिः ॥ २२॥
तत्कर्म बहुधा प्रोक्तं विद्वद्भिः कर्मकारिभिः ।
कर्तृभेदान्मन्त्रभेदाद्द्रव्यभेदात्तथा पुनः ॥ २३॥
यथा मघवता पूर्वं विश्वरूपो वृतो गुरुः ।
विपरीतं कृतं तेन कर्म मातृहिताय वै ॥ २४॥
देवेभ्यो दानवेभ्यस्तु स्वस्तीत्युक्त्वा पुनः पुनः ।
असुरा मातृपक्षीयाः कृतं तेषाञ्च रक्षणम् ॥ २५॥
दैत्यान् दृष्ट्वातिसम्पुष्टांश्चुकोप मघवा तदा ।
शिरांसि तस्य वज्रेण चिच्छेद तरसा हरिः ॥ २६॥
क्रियावैगुण्यमत्रैव कर्तृभेदादसंशयम् ।
नोचेत्पञ्चालराजेन रोषेणापि कृता क्रिया ॥ २७॥
भारद्वाजविनाशाय पुत्रस्योत्पादनाय च ।
धृष्टद्युम्नः समुत्पन्नो वेदिमध्याच्च द्रौपदी ॥ २८॥
पुरा दशरथेनापि पुत्रेष्टिस्तु कृता यदा ।
अपुत्रस्य सुतास्तस्य चत्वारः सम्प्रजज्ञिरे ॥ २९॥
अतः क्रिया कृता युक्त्या सिद्धिदा सर्वथा भवेत् ।
अयुक्त्या विपरिता स्यात्सर्वथा नृपसत्तम ॥ ३०॥