स्कन्ध 3, अध्याय 11: सत्यव्रताख्यानवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.११ एकादशोऽध्यायः ।
सत्यव्रताख्यानवर्णनम् ।
लोमश उवाच ।
न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा ।
ध्यानं न देवतानाञ्च न चैवाराधनं तथा ॥ १॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.११ एकादशोऽध्यायः ।
सत्यव्रताख्यानवर्णनम् ।
लोमश उवाच ।
न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा ।
ध्यानं न देवतानाञ्च न चैवाराधनं तथा ॥ १॥
नासनं वेद विप्रोऽसो प्राणायामं तथा पुनः ।
प्रत्याहारं तु नो वेद भूतशुद्धिञ्च कारणम् ॥ २॥
न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सः ।
शौचं स्नानविधिञ्चैव तथाचमनकं पुनः ॥ ३॥
प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् ।
न सन्ध्यां समिधो होमं विवेद च तथा मुनिः ॥ ४॥
सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् ।
स्नानं च शूद्रवत्तत्र गङ्गायां मन्त्रवर्जितम् ॥ ५॥
फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया ।
भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा ॥ ६॥
सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः ।
जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै ॥ ७॥
नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् ।
सुखं स्वपिति तत्रैव निर्भयश्चिन्तयन्निति ॥ ८॥
कदा मे मरणं भावि दुःखं जीवामि कानने ।
जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम् ॥ ९॥
दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम ।
प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना ॥ १०॥
यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः ।
अदुग्धदोहा धेनुश्च तथाऽहं निष्फलः कृतः ॥ ११॥
किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् ।
न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने ॥ १२॥
न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला ।
तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः ॥ १३॥
न च तीर्थे तपस्तप्तं सेविता न च साधवः ।
न द्विजाः पूजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः ॥ १४॥
वर्तन्ते मुनिपुत्राश्च वेदशास्त्रार्थपारगाः ।
अहं सुमूढः सञ्जातो दैवयोगेन केनचित् ॥ १५॥
न जानामि तपस्तप्तुं किं करोमि सुसाधनम् ।
मिथ्यायं मेऽत्र सङ्कल्पो न मे भाग्यं शुभं किल ॥ १६॥
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
वृथा श्रमकृतं कार्यं दैवाद्भवति सर्वथा ॥ १७॥
ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याः किल देवताः ।
कालस्य वशगाः सर्वे कालो हि दुरतिक्रमः ॥ १८॥
एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः ।
स्थितस्तत्राश्रमे तीरे जान्हव्याः पावने स्थले ॥ १९॥
विरक्तः स तु सञ्जातः स्थितस्तत्राश्रमे द्विजः ।
कालातिवाहनं शान्तश्चकार विजने वने ॥ २०॥
एवं स्थितस्य तु वने विमलोदके वै वर्षाणि तत्र नवपञ्च गतानि कामम् ।
नाराधनं न च जपं न विवेद मन्त्रं कालातिवाहनमसौ कृतवान् वने वै ॥ २१॥
जानाति तस्य विततं व्रतमेव लोकः सत्यं वदत्यपि मुनिः किल नामजातम् ।
जातं यशश्च सकलेषु जनेषु कामं सत्यव्रतोऽयमनिशं न मृषाभिभाषी ॥ २२॥
तत्रैकदा तु मृगयां रममाण एव प्राप्तो निषादनिशठो धृतचापबाणः ।
क्रीडन् वनेऽतिविपुले यमतुल्यदेहः क्रूराकृतिर्हननकर्मणि चातिदक्षः ॥ २३॥
तेनातिकृष्टेन शरेण विद्धः कोलः किरातेन धनुर्धरेण ।
पलायमानो भयविह्वलश्च मुनेः समीपं विद्रुतो जगाम ॥ २४॥
विकम्पमानो रुधिरार्द्रदेहो यदा जगामाश्रममण्डलं वै ।
कालस्तदातीव दयार्द्रभावं प्राप्तो मुनिस्तत्र समीक्ष्य दीनम् ॥ २५॥
अग्रे व्रजन्तं रुधिरार्द्रदेहं दृष्ट्वा मुनिः सूकरमाशु विद्धम् ।
दयाभिवेशादतिकम्पमानः सारस्वतं बीजमथोच्चचार ॥ २६॥
अज्ञातपूर्वं च तथाश्रुतञ्च दैवान्मुखे वै समुपागतञ्च ।
न ज्ञातवान्बीजमसौ विमूढो ममज्ज शोके स मुनिर्महात्मा ॥ २७॥
कोलः प्रविश्याश्रममण्डलं तद् गतो निकुञ्जे प्रविलीय गूढम् ।
अप्राप्तमार्गो दृढनिर्विण्णचेताः प्रवेपमानः शरपीडितत्वात् ॥ २८॥
ततः क्षणादाकरणान्तकृष्टं चापं दधानोऽतिकरालदेहः ।
प्राप्तस्तदन्ते स च मृग्यमाणो निषादराजः किल काल एव ॥ २९॥
दृष्ट्वा मुनिं तत्र कुशासने स्थितं नाम्ना तु सत्यव्रतमद्वितीयम् ।
व्याधः प्रणम्य प्रमुखे स्थितोऽसौ पप्रच्छ कोलः क्व गतो द्विजेश ॥ ३०॥