स्कन्ध 3, अध्याय 10: सत्यव्रताख्यानवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.१० दशमोऽध्यायः ।
सत्यव्रताख्यानवर्णनम् ।
जनमेजय उवाच ।
कोऽसौ सत्यव्रतो नाम ब्राह्मणो द्विजसत्तमः ।
कस्मिन्देशे समुत्पन्नः कीदृशश्च वदस्व मे ॥ १॥