स्कन्ध 3, अध्याय 9: गुणानां गुणपरिज्ञानवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.९ नवमोऽध्यायः ।
गुणानां गुणपरिज्ञानवर्णनम् ।
नारद उवाच ।
गुणानां लक्षणं तात भवता कथितं किल ।
न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम् ॥ १॥