Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.८ अष्टमोऽध्यायः ।

गुणानां रूपसंस्थानादिवर्णनम् ।

ब्रह्मोवाच ।

सर्गोऽयं कथितस्तात यत्पृष्टोऽहं त्वयाऽधुना ।

गुणानां रूपसंस्थां वै श‍ृणुष्वैकाग्रमानसः ॥ १॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 2

सत्त्वं प्रीत्यात्मकं ज्ञेयं सुखात्प्रीतिसमुद्भवः ।

आर्जवं च तथा सत्यं शौचं श्रद्धा क्षमा धृतिः ॥ २॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 3

अनुकम्पा तथा लज्जा शान्तिः सन्तोष एव च ।

एतैः सत्त्वप्रतीतिश्च जायते निश्चला सदा ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 4

श्वेतवर्णं तथा सत्त्वं धर्मे प्रीतिकरः सदा ।

सच्छ्रद्धोत्पादकं नित्यमसच्छ्रद्धानिवारकम् ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 5

सात्त्विकी राजसी चैव तामसी च तथापरा ।

श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 6

रक्तवर्णं रजः प्रोक्तमप्रीतिकरमद्भुतम् ।

अप्रीतिर्दुःखयोगत्वाद्भवत्येव सुनिश्चिता ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 7

प्रद्वेषोऽथ तथा द्रोहो मत्सरः स्तम्भ एव च ।

उत्कण्ठा च तथा निद्रा श्रद्धा तत्र च राजसी ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 8

मानो मदस्तथा गर्वो रजसा किल जायते ।

प्रत्येतव्यं रजस्त्वेतैर्लक्षणैश्च विचक्षणैः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 9

कृष्णवर्णं तमः प्रोक्तं मोहनं च विषादकृत् ।

आलस्यं च तथाऽज्ञानं निद्रा दैन्यं भयं तथा ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 10

विवादश्चैव कार्पण्यं कौटिल्यं रोष एव च ।

वैषम्यं वातिनास्तिक्यं परदोषानुदर्शनम् ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 11

प्रत्येतव्यं तमस्त्वेतैर्लक्षणैः सर्वथा बुधैः ।

तामस्या श्रद्धया युक्तं परतापोपपादकम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 12

सत्त्वं प्रकाशयितव्यं नियन्तव्यं रजः सदा ।

संहर्तव्यं तमः कामं जनेन शुभमिच्छता ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 13

अन्योन्याभिभवाच्चैते विरुध्यन्ति परस्परम् ।

तथोऽन्योन्याश्रयाः सर्वे न तिष्ठन्ति निराश्रयाः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 14

सत्त्वं न केवलं क्वापि न रजो न तमस्तथा ।

मिलिताश्च सदा सर्वे तेनान्योन्याश्रयाः स्मृताः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 15

अन्योन्यमिथुनाच्चैव विस्तारं कथयाम्यहम् ।

श‍ृणु नारद यज्ज्ञात्वा मुच्यते भवबन्धनात् ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 16

सन्देहोऽत्र न कर्तव्यो ज्ञात्वेत्युक्तं मया वचः ।

ज्ञातं तदनुभूतं यत्परिज्ञातं फले सति ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 17

श्रवणाद्दर्शनाच्चैव सपद्येव महामते ।

संस्कारानुभवाच्चैव परिज्ञातं न जायते ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 18

श्रुतं तीर्थं पवित्रञ्च श्रद्धोत्पन्ना च राजसी ।

निर्गतस्तत्र तीर्थे वै दृष्टं चैव यथाश्रुतम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 19

स्नातस्तत्र कृतं कृत्यं दत्तं दानं च राजसम् ।

स्थितस्तत्र कियत्कालं रजोगुणसमावृतः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 20

रागद्वेषान्न निर्मुक्तः कामक्रोधसमावृतः ।

पुनरेव गृहं प्राप्तो यथापूर्वं तथा स्थितः ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 21

श्रुतं च नानुभूतं वै तेन तीर्थं मुनीश्वर ।

न प्राप्तं च फलं यस्मादश्रुतं विद्धि नारद ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 22

निष्पापत्वं बलं विद्धि तीर्थस्य मुनिसत्तम ।

कृषेः फलं यथा लोके निष्पन्नान्नस्य भक्षणम् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 23

पापदेहविकारा ये कामक्रोधादयः परे ।

लोभो मोहस्तथा तृष्णा द्वेषो रागस्तथा मदः ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 24

असूयेर्ष्याक्षमाशान्तिः पापान्येतानि नारद ।

न निर्गतानि देहात्तु तावत्पापयुतो नरः ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 25

कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् ।

निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 26

श्रमेणापीडितं क्षेत्रं कृष्टा भूमिः सुदुर्घटा ।

उप्तं बीजं महार्घं च हिता वृत्तिरुदाहृता ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 27

अहोरात्रं परिक्लिष्टो रक्षणार्थं फलोत्सुकः ।

काले सुप्तस्तु हेमन्ते वने व्याघ्रादिभिर्भृशम् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 28

भक्षितं शलभैः सर्वं निराशश्च कृतः पुनः ।

तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्रदः ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 29

सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् ।

वैराग्यं तत्फलं जातं तामसार्थेषु नारद ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 3, अध्याय 8: गुणानां रूपसंस्थानादिवर्णनम्, Verse 30

प्रसह्याभिभवत्येव तद्रजस्तमसी उभे ।

रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः ॥ ३०॥