स्कन्ध 3, अध्याय 6: ब्रह्मणे श्रीदेव्या उपदेशवर्णनम्, Verse 1
३.६ षष्ठोऽध्यायः ।
ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।
ब्रह्मोवाच ।
इति पृष्टा मया देवी विनयावनतेन च ।
उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा ॥ १॥
Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.
३.६ षष्ठोऽध्यायः ।
ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।
ब्रह्मोवाच ।
इति पृष्टा मया देवी विनयावनतेन च ।
उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा ॥ १॥
देव्युवाच ।
सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च ।
योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात् ॥ २॥
आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः ।
विमुक्तः स तु संसारान्मुच्यते नात्र संशयः ॥ ३॥
एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् ।
द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके ॥ ४॥
यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा ।
छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः ॥ ५॥
भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज ।
दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा ॥ ६॥
नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसङ्क्षये ।
सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः ॥ ७॥
अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा ।
श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा ॥ ८॥
कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा ।
विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च ॥ ९॥
वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता ।
परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः ॥ १०॥
किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि ।
सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज ॥ ११॥
एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे ।
तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम् ॥ १२॥
नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् ।
भवामि शक्तिरूपेण करोमि च पराक्रमम् ॥ १३॥
गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा ।
वारूणी चाथ कौबेरी नारसिंही च वासवी ॥ १४॥
उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् ।
करोमि सर्वकार्याणि निमित्तं तं विधाय वै ॥ १५॥
जले शीतं तथा वह्नावौष्ण्यं ज्योतिर्दिवाकरे ।
निशानाथे हिमा कामं प्रभवामि यथा तथा ॥ १६॥
मया त्यक्तं विधे नूनं स्पन्दितुं न क्षमं भवेत् ।
जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयि ॥ १७॥
अशक्तः शङ्करो हन्तुं दैत्यान्किल मयोज्झितः ।
शक्तिहीनं नरं ब्रूते लोकश्चैवातिदुर्बलम् ॥ १८॥
रुद्रहीनं विष्णुहीनं न वदन्ति जनाः किल ।
शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम् ॥ १९॥
पतितः स्खलितो भीतः शान्तः शत्रुवशं गतः ।
अशक्तः प्रोच्यते लोके नारुद्रः कोऽपि कथ्यते ॥ २०॥
तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि ।
भविता च यदा युक्तः शक्त्या कर्ता तदाखिलम् ॥ २१॥
तथा हरिस्तथा शम्भुस्तथेन्द्रोऽथ विभावसुः ।
शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा ॥ २२॥
धरा स्थिरा तदा धर्तुं शक्तियुक्ता यदा भवेत् ।
अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे ॥ २३॥
तथा शेषस्तथा कूर्मो येऽन्ये सर्वे च दिग्गजाः ।
मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितुम् ॥ २४॥
जलं पिबामि सकलं संहरामि विभावसुम् ।
पवनं स्तम्भयाम्यद्य यदिच्छामि तथाचरम् ॥ २५॥
तत्त्वानां चैव सर्वेषां कदापि कमलोद्भव ।
असतां भावसन्देहः कर्तव्यो न कदाचन ॥ २६॥
कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा ।
मृत्पिण्डेषु कपालेषु घटाभावो यथा तथा ॥ २७॥
अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे ।
सञ्जाता इति विज्ञेया अस्यास्तु परमाणवः ॥ २८॥
शाश्वतं क्षणिकं शून्यं नित्यानित्यं सकर्तुकम् ।
अहङ्काराग्रिमञ्चैव सप्तभेदैर्विवक्षितम् ॥ २९॥
गृहाणाज महतत्त्वमहङ्कारस्तदुद्भवः ।
ततः सर्वाणि भूतानि रचयस्व यथा पुरा ॥ ३०॥