स्कन्ध 3, अध्याय 5: हरब्रह्मकृतस्तुतिवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ३.५ पञ्चमोऽध्यायः ।
हरब्रह्मकृतस्तुतिवर्णनम् ।
ब्रह्मोवाच ।
इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने ।
उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ १॥