स्कन्ध 3, अध्याय 1: भुवनेश्वरीवर्णनम्, Verse 1
३ श्रीमद्देवीभागवतमहापुराणे तृतीयः स्कन्धः ३.१ प्रथमोऽध्यायः ।
भुवनेश्वरीवर्णनम् ।
जनमेजय उवाच - भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् ।
सा का कथं समुत्पन्ना कुत्र कस्माच्च किङ्गुणा ॥ १॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
३ श्रीमद्देवीभागवतमहापुराणे तृतीयः स्कन्धः ३.१ प्रथमोऽध्यायः ।
भुवनेश्वरीवर्णनम् ।
जनमेजय उवाच - भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् ।
सा का कथं समुत्पन्ना कुत्र कस्माच्च किङ्गुणा ॥ १॥
कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा ।
विधानं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ २॥
ब्रह्माण्डस्य तथोत्पत्तिं वद विस्तरतस्तथा ।
यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर ॥ ३॥
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः ।
सृष्टिपालनसंहारकारकाः सगुणास्त्वमी ॥ ४॥
स्वतन्त्रास्ते महात्मानः पाराशर्य वदस्व मे ।
आहोस्वित्परतन्त्रास्ते श्रोतुमिच्छामि साम्प्रतम् ॥ ५॥
मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः ।
अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः ॥ ६॥
कालस्य वशगा नो वा ते सुरेन्द्रा महाबलाः ।
कथं ते वै समुत्पन्ना कस्मादिति च संशयः ॥ ७॥
हर्षशोकयुतास्ते वै निद्रालस्यसमन्विताः ।
सप्तधातुमयास्तेषां देहाः किं वान्यथा मुने ॥ ८॥
कैर्द्रव्यैर्निर्मितास्ते वै कैर्गुणैरिन्द्रियैस्तथा ।
भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा ॥ ९॥
निवासस्थानमप्येषां विभूतिं च वदस्व मे ।
श्रोतुमिच्छाम्यहं ब्रह्मन् विस्तरेण कथामिमाम् ॥ १०॥
व्यास उवाच - दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना ।
ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते ॥ ११॥
एतदेव मया पूर्वं पृष्टोऽसौ नारदो मुनिः ।
विस्मितः प्रत्युवाचेदमुत्थितः शृणु भूपते ॥ १२॥
कस्मिंश्च समये चाहं गङ्गातीरे स्थितं मुनिम् ।
अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम् ॥ १३॥
दृष्ट्वाहं मुदितो भूत्वा पादयोरपतं मुनेः ।
तेजाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने ॥ १४॥
श्रुत्वा कुशलवार्तां वै तमपृच्छं विधेः सुतम् ।
निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मवालुके ॥ १५॥
मुनेऽतिविततस्यास्य ब्रह्माण्डस्य महामते ।
कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः ॥ १६॥
कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम ।
अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम ॥ १७॥
एककर्तृकमेतद्वा बहुकर्तृकमन्यथा ।
अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे ॥ १८॥
इति सन्देहसन्दोहे मग्नं मां तारयाधुना ।
विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे ॥ १९॥
ब्रुवन्ति शङ्करं केचिन्मत्वा कारणकारणम् ।
सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम् ॥ २०॥
आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् ।
संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम् ॥ २१॥
अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् ।
परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम् ॥ २२॥
भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् ।
व्यापकं विश्वशरणमनादिनिधनं हरिम् ॥ २३॥
धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् ।
तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम् ॥ २४॥
चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् ।
स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम् ॥ २५॥
दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः ।
स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः ॥ २६॥
यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् ।
सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम् ॥ २७॥
यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् ।
यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम् ॥ २८॥
वरुणं च तथा सोमं पावकं पवनं तथा ।
यमं कुबेरं धनदं गणाधीशं तथापरे ॥ २९॥
हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् ।
स्मरणात्सिद्धिदं कामं कामदं कामगं परम् ॥ ३०॥