स्कन्ध 2, अध्याय 12: श्रोतृप्रवक्तृप्रसङ्गः, Verse 1
२.१२ द्वादशोऽध्यायः ।
श्रोतृप्रवक्तृप्रसङ्गः ।
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः ।
उवाच वचनं तत्र सभायां नृपतिं च तम् ॥ १॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
२.१२ द्वादशोऽध्यायः ।
श्रोतृप्रवक्तृप्रसङ्गः ।
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः ।
उवाच वचनं तत्र सभायां नृपतिं च तम् ॥ १॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि पुराणं गुह्यमद्भुतम् ।
पुण्यं भागवतं नाम नानाख्यानयुतं शिवम् ॥ २॥
अध्यापितं मया पूर्वं शुकायात्मसुताय वै ।
श्रावयामि नृप त्वां हि रहस्यं परमं मम ॥ ३॥
धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल ।
शुभद सुखदं नित्यं सर्वागमसमुद्धृतम् ॥ ४॥
जनमेजय उवाच ।
आस्तीकोऽयं सुतः कस्य विघ्नार्थं कथमागतः ।
प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो ॥ ५॥
कथयैतन्महाभाग विस्तरेण कथानकम् ।
पुराणं च तथा सर्वं विस्तराद्वद सुव्रत ॥ ६॥
व्यास उवाच ।
जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् ।
तेन दृष्टा वने गर्ते लम्बमाना स्वपूर्वजाः ॥ ७॥
ततस्तमाहुः कुरु पुत्र दारा- न्यथा च नः स्यात्परमा हि तृप्तिः ।
स्वर्गे व्रजामः खलु दुःखमुक्ता वयं सदाचारयुते सुते वै ॥ ८॥
स तानुवाचाथ लभे समाना- मयाचितां चातिवशानुगां च ।
तदा गृहारम्भमहं करोमि ब्रवीमि तथ्यं मम पूर्वजा वै ॥ ९॥
इत्युक्त्वा ताञ्जरत्कारुर्गतस्तीर्थान्प्रति द्विजः ।
तदैव पन्नगाः शप्ता मात्राग्नौ निपतन्त्विति ॥ १०॥
कश्यपस्य मुनेः पत्न्यौ कद्रूश्च विनता तथा ।
दृष्ट्वादित्यरथे चाश्वमूचतुश्च परस्परम् ॥ ११॥
तं दृष्ट्वा च तदा कद्रूर्विनतामिदमब्रवीत् ।
किंवर्णोऽयं हयो भद्रे सत्यं प्रब्रूहि माचिरम् ॥ १२॥
विनतोवाच ।
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।
ब्रूहि वर्णं त्वमप्यस्य ततस्तु विपणावहे ॥ १३॥
कद्रुरुवाच ।
कृष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते ।
एहि सार्धं मया दिव्यं दासीभावाय भामिनि ॥ १४॥
सूत उवाच ।
कद्रूश्च स्वसुतानाह सर्वान्सर्पान्वशे स्थितान् ।
बालाञ्छ्यामान्प्रकुर्वन्तु यावतोऽश्वशरीरके ॥ १५॥
नेति केचन तत्राहुस्तानथासौ शशाप ह ।
जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम् ॥ १६॥
अन्ये चक्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः ।
वेष्टयित्वास्य पुच्छं तु मातुः प्रियचिकीर्षया ॥ १७॥
भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् ।
कर्बुरं तं हयं दृष्ट्वा विनता चातिदुःखिता ॥ १८॥
तदाजगाम गरुडः सुतस्तस्या महाबलः ।
स दृष्ट्वा मातरं दीनामपृच्छत्पन्नगाशनः ॥ १९॥
मातः कथं सुदीनासि रुदितेव विभासि मे ।
जीवमाने मयि सुते तथान्ये रविसारथौ ॥ २०॥
दुःखितासि ततो वां धिग्जीवितं चारुलोचने ।
किं जातेन सुतेनाथ यदि माता सुदुःखिता ॥ २१॥
शंस मे कारणं मातः करोमि विगतज्वराम् ।
विनतोवाच ।
सपत्न्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता ॥ २२॥
वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत ।
गरुड उवाच ।
वहिष्येऽहं तत्र किल यत्र सा गन्तुमुत्सुका ॥ २३॥
मा शोकं कुरु कल्याणि निश्चिन्तां त्वां करोम्यहम् ।
व्यास उवाच ।
इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा ॥ २४॥
दासीभावमपाकर्तुं गरुडोऽपि महाबलः ।
उवाह तां सपुत्रां वै सिन्धोः पारं जगाम ह ॥ २५॥
गत्वा तां गरुडः प्राह ब्रूहि मातर्नमोऽस्तु ते ।
कथं मुच्येत मे माता दासीभावादसंशयम् ॥ २६॥
कद्रूरुवाच ।
अमृतं देवलोकात्त्वं बलादानीय मे सुतान् ।
समर्पय सुताद्याशु मातरं मोचयाबलाम् ॥ २७॥
व्यास उवाच ।
इत्युक्तः प्रययौ शीघ्रमिन्द्रलोकं महाबलः ।
कृत्वा युद्धं जहाराशु सुधाकुम्भं खगोत्तमः ॥ २८॥
समानीयामृतं मात्रे वैनतेयः समर्पयत् ।
मोचिता विनता तेन दासीभावादसंशयम् ॥ २९॥
अमृतं सञ्जहारेन्द्रः स्नातुं सर्पा यदा गताः ।
दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात् ॥ ३०॥