स्कन्ध 12, अध्याय 14: श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम्, Verse 1
१२.१४ चतुर्दशोऽध्यायः ।
श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।
सूत उवाच ।
अर्धश्लोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम् ।
श्रीमद्भागवतं नाम वेदसिद्धान्तबोधकम् ॥ १॥
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
१२.१४ चतुर्दशोऽध्यायः ।
श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् ।
सूत उवाच ।
अर्धश्लोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम् ।
श्रीमद्भागवतं नाम वेदसिद्धान्तबोधकम् ॥ १॥
उपदिष्टं विष्णुवे यद्वटपत्रनिवासिने ।
शतकोटिप्रविस्तीर्णं तत्कृतं ब्रह्मणा पुरा ॥ २॥
तत्सारमेकतः कृत्वा व्यासेन शुकहेतवे ।
अष्टादशसहस्रं तु द्वादशस्कन्धसंयुतम् ॥ ३॥
देवीभागवतं नाम पुराणं ग्रथितं पुरा ।
अद्यापि देवलोके तद्बहुविस्तीर्णमस्ति हि ॥ ४॥
नानेन सदृशं पुण्यं पवित्रं पापनाशनम् ।
पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥ ५॥
पौराणिकं पूजयित्वा वस्त्राद्याभरणादिभिः ।
व्यासबुद्ध्या तन्मुखात्तु श्रुत्वैतत्समुपोषितः ॥ ६॥
लिखित्वा निजहस्तेन लेखकेनाथवा मुने ।
प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ॥ ७॥
दद्यात्पौराणिकायाथ दक्षिणां च पयस्विनीम् ।
सालङ्कृतां सवत्सां च कपिलां हेममालिनीम् ॥ ८॥
भोजयेद्ब्राह्मणानन्तेऽप्यध्यायपरिसम्मितान् ।
सुवासिनीस्तावतीश्च कुमारीर्बटुकैः सह ॥ ९॥
देवीबुद्ध्या पूजयेत्तान्वसनाभरणादिभिः ।
पायसान्नवरेणापि गन्धस्रक्कुसुमादिभिः ॥ १०॥
पुराणदानेनैतेन भूदानस्य फलं लभेत् ।
इहलोके सुखी भूत्वाप्यन्ते देवीपुरं व्रजेत् ॥ ११॥
नित्यं यः शृणुयाद्भक्त्या देवीभागवतं परम् ।
न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि ॥ १२॥
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ।
विद्यार्थी प्राप्नुयाद्विद्यां कीर्तिमण्डितभूतलः ॥ १३॥
वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्गना ।
श्रवणादस्य तद्दोषान्निवर्तेत न संशयः ॥ १४॥
यद्गेहे पुस्तकं चैतत्पूजितं यदि तिष्ठति ।
तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ॥ १५॥
नेक्षन्ते तत्र वेतालडाकिनीराक्षसादयः ।
ज्वरितं तु नरं स्पृष्ट्वा पठेदेतत्समाहितः ॥ १६॥
मण्डलान्नाशमाप्नोति ज्वरो दाहसमन्वितः ।
शतावृत्त्यास्य पठनात्क्षयरोगो विनश्यति ॥ १७॥
प्रतिसन्ध्यं पठेद्यस्तु सन्ध्यां कृत्वा समाहितः ।
एकैकमस्य चाध्यायं स नरो ज्ञानवान्भवेत् ॥ १८॥
शकुनांश्चैव वीक्षेत कार्याकार्येषु चैव हि ।
तत्प्रकारः पुरस्तात्तु कथितोऽस्ति मया मुने ॥ १९॥
नवरात्रे पठेन्नित्यं शारदीयेऽतिभक्तितः ।
तस्याम्बिका तु सन्तुष्टा ददातीच्छाधिकं फलम् ॥ २०॥
वैष्णवैश्चैव शैवैश्च रमोमा प्रीयते सदा ।
सौरैश्च गाणपत्यैश्च स्वेष्टशक्तेश्च तुष्टये ॥ २१॥
पठितव्यं प्रयत्नेन नवरात्रचतुष्टये ।
वैदिकैर्निजगायत्रीप्रीतये नित्यशो मुने ॥ २२॥
पठितव्यं प्रयत्नेन विरोधो नात्र कस्यचित् ।
उपासना तु सर्वेषां शक्तियुक्तास्ति सर्वदा ॥ २३॥
तच्छक्तेरेव तोषार्थं पठितव्यं सदा द्विजैः ।
स्त्रीशूद्रो न पठेदेतत्कदापि च विमोहितः ॥ २४॥
शृणुयाद्द्विजवक्त्रात्तु नित्यमेवेति च स्थितिः ।
किं पुनर्बहुनोक्तेन सारं वक्ष्यामि तत्त्वतः ॥ २५॥
वेदसारमिदं पुण्यं पुराणं द्विजसत्तमाः ।
वेदपाठसमं पाठे श्रवणे च तथैव हि ॥ २६॥
सच्चिदानन्दरूपां तां गायत्रीप्रतिपादिताम् ।
नमामि ह्रींमयीं देवीं धियो यो नः प्रचोदयात् ॥ २७॥
इति सूतवचः श्रुत्वा नैमिषीयास्तपोधनाः ।
पूजयामासुरत्युच्चैः सूतं पौराणिकोत्तमम् ॥ २८॥
प्रसन्नहृदयाः सर्वे देवीपादाम्बुजार्चकाः ।
निर्वृतिं परमां प्राप्ताः पुराणस्य प्रभावतः ॥ २९॥
नमश्चक्रुः पुनः सूतं क्षमाप्य च मुहुर्मुहुः ।
संसारवारिधेस्तात प्लवोऽस्माकं त्वमेव हि ॥ ३०॥