स्कन्ध 12, अध्याय 13: जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम्, Verse 1
१२.१३ त्रयोदशोऽध्यायः ।
जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् ।
व्यास उवाच ।
इति ते कथितं भूप यद्यत्पृष्टं त्वयानघ ।
नारायणेन यत्प्रोक्तं नारदाय महात्मने ॥ १॥