स्कन्ध 12, अध्याय 12: मणिद्वीपवर्णनम्, Verse 1
१२.१२ द्वादशोऽध्यायः ।
मणिद्वीपवर्णनम् ।
व्यास उवाच ।
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ १॥
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
१२.१२ द्वादशोऽध्यायः ।
मणिद्वीपवर्णनम् ।
व्यास उवाच ।
तदेव देवीसदनं मध्यभागे विराजते ।
सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥ १॥
शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च ।
ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः ॥ २॥
एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः ।
नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः ॥ ३॥
कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः ।
तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥ ४॥
मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः ।
असङ्ख्याता मृगमदैः पूरितास्तत्स्रवा नृप ॥ ५॥
महापद्माटवी तद्वद्रत्नसोपाननिर्मिता ।
सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता ॥ ६॥
हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा ।
वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम् ॥ ७॥
शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः ।
सभासदो देववरा मध्ये श्रीजगदम्बिका ॥ ८॥
मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा ।
ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ॥ ९॥
चतुर्थमण्डपे चैव जगद्रक्षाविचिन्तनम् ।
मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥ १०॥
चिन्तामणिगृहे राजञ्छक्तितत्त्वात्मकैः परैः ।
सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते ॥ ११॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः ॥ १२॥
तस्योपरि महादेवो भुवनेशो विराजते ।
या देवी निजलीलार्थं द्विधाभूता बभूव ह ॥ १३॥
सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः ।
कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः ॥ १४॥
पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः ।
हरिणाभीतिपरशून् वरं च निजबाहुभिः ॥ १५॥
दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् ।
कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः ॥ १६॥
शुद्धस्फटिकसङ्काशस्त्रिनेत्रः शीतलद्युतिः ।
वामाङ्गे सन्निषण्णास्य देवी श्रीभुवनेश्वरी ॥ १७॥
नवरत्नगणाकीर्णकाञ्चीदामविराजिता ।
तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणा ॥ १८॥
कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा ।
ललाटकान्तिविभवविजितार्थसुधाकरा ॥ १९॥
बिम्बकान्तितिरस्कारिरदच्छदविराजिता ।
लसत्कुङ्कुमकस्तुरीतिलकोद्भासितानना ॥ २०॥
दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका ।
उद्यत्कविसमस्वच्छनासाभरणभासुरा ॥ २१॥
चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता ।
पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनी ॥ २२॥
विचित्रविविधाकल्पा कम्बुसङ्काशकन्धरा ।
दाडिमीफलबीजाभदन्तपङ्क्तिविराजिता ॥ २३॥
अनर्घ्यरत्नघटितमुकुटाञ्चितमस्तका ।
मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा ॥ २४॥
कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना ।
जाह्नवीसलिलावर्तशोभिनाभिविभूषिता ॥ २५॥
माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषिता ।
पुण्डरीकदलाकारनयनत्रयसुन्दरी ॥ २६॥
कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा ।
रत्नकिङ्किणिकायुक्तरत्नकङ्कणशोभिता ॥ २७॥
मणिमुक्तासरापारलसत्पदकसन्ततिः ।
रत्नाङ्गुलिप्रविततप्रभाजाललसत्करा ॥ २८॥
कञ्चुकीगुम्फितापारनानारत्नततिद्युतिः ।
मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता ॥ २९॥
सुवृत्तनिबिडोत्तुङ्गकुचभारालसा शिवा ।
वरपाशाङ्कुशाभीतिलसद्बाहुचतुष्टया ॥ ३०॥