स्कन्ध 12, अध्याय 11: पद्मरागादिमणिविनिर्मितप्राकारवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १२.११ एकादशोऽध्यायः ।
पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् ।
व्यास उवाच ।
पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः ।
पद्मरागमयः सालो मध्ये भूश्चैव तादृशी ॥ १॥