स्कन्ध 12, अध्याय 10: मणिद्वीपवर्णनम्, Verse 1
१२.१० दशमोऽध्यायः ।
मणिद्वीपवर्णनम् ।
व्यास उवाच ।
ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।
मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ १॥
Containing 100 sacred Sanskrit shlokas with multi-author commentaries and translations.
१२.१० दशमोऽध्यायः ।
मणिद्वीपवर्णनम् ।
व्यास उवाच ।
ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।
मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥ १॥
सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः ।
पुरा पराम्बयैवायं कल्पितो मनसेच्छया ॥ २॥
सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया ।
कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥ ३॥
गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः ।
न तत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥ ४॥
छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् ।
छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम ॥ ५॥
बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि ।
मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥ ६॥
मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः ।
रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः ॥ ७॥
वीचिसङ्घर्षसञ्जातलहरीकणशीतलः ।
नानाध्वजसमायुक्तनानापोतगतागतैः ॥ ८॥
विराजमानः परितस्तीररत्नद्रुमो महान् ।
तदुत्तरमयोधातुनिर्मितो गगने ततः ॥ ९॥
सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥ १०॥
रक्षका निवसन्त्यत्र मोदमानाः समन्ततः ।
चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥ ११॥
नानागणैः परिवृतो देवीभक्तियुतैर्नृप ।
दर्शनार्थं समायान्ति ये देवा जगदीशितुः ॥ १२॥
तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि ।
विमानशतसङ्घर्षघण्टास्वनसमाकुलः ॥ १३॥
हयहेषाखराघातबधिरीकृतदिङ्मुखः ।
गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः ॥ १४॥
सेवका देवसङ्घानां भ्राजन्ते तत्र भूमिप ।
तस्मिन्कोलाहले राजन्न शब्दः केनचित्क्वचित् ॥ १५॥
कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले ।
पदे पदे मिष्टवारिपरिपूर्णसरांसि च ॥ १६॥
वाटिका विविधा राजन् रत्नद्रुमविराजिताः ।
तदुत्तरं महासारधातुनिर्मितमण्डलः ॥ १७॥
सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः ।
तेजसा स्याच्छतगुणः पूर्वसालादयं परः ॥ १८॥
गोपुरद्वारसहितो बहुवृक्षसमन्वितः ।
या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च ॥ १९॥
निरन्तरं पुष्पयुताः सदा फलसमन्विताः ।
नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः ॥ २०॥
पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।
देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः ॥ २१॥
लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा ।
पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः ॥ २२॥
तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः ।
पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः ॥ २३॥
अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।
गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः ॥ २४॥
चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः ।
कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः ॥ २५॥
खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।
क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा ॥ २६॥
रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।
तुलसीनां वनान्येवं मल्लिकानां तथैव च ॥ २७॥
इत्यादितरुजातीनां वनान्युपवनानि च ।
नानावापीशतैर्युक्तान्येवं सन्ति धराधिप ॥ २८॥
कोकिलारावसंयुक्ता गुञ्जद्भ्रमरभूषिताः ।
निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ २९॥
नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः ।
नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥ ३०॥