स्कन्ध 12, अध्याय 6: गायत्रीसहस्रनामस्तोत्रवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १२.६ षष्ठोऽध्यायः ।
गायत्रीसहस्रनामस्तोत्रवर्णनम् ।
नारद उवाच ।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १॥