स्कन्ध 2, अध्याय 11: सर्पसत्रवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां २.११ एकादशोऽध्यायः ।
सर्पसत्रवर्णनम् ।
सूत उवाच ।
गतप्राणं तु राजानं बालं पुत्रं समीक्ष्य च ।
चक्रुश्च मन्त्रिणः सर्वे परलोकस्य सत्क्रियाः ॥ १॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां २.११ एकादशोऽध्यायः ।
सर्पसत्रवर्णनम् ।
सूत उवाच ।
गतप्राणं तु राजानं बालं पुत्रं समीक्ष्य च ।
चक्रुश्च मन्त्रिणः सर्वे परलोकस्य सत्क्रियाः ॥ १॥
गङ्गातीरे दग्धदेहं भस्मप्रायं महीपतिम् ।
अगुरुभिश्चाभियुक्तायां चितायामध्यरोपयन् ॥ २॥
दुर्मरणे मृतस्यास्य चकुश्चैवौर्ध्वदैहिकीम् ।
क्रियां पुरोहितास्तस्य वेदमन्त्रैर्विधानतः ॥ ३॥
ददुर्दानानि विप्रेभ्यो गाः सुवर्णं यथोचितम् ।
अन्नं बहुविधं तत्र वस्त्राणि विविधानि च ॥ ४॥
सुमुहूर्ते सुतं बालं प्रजानां प्रीतिवर्धनम् ।
सिंहासने शुभे तत्र मन्त्रिणः संन्यवेशयन् ॥ ५॥
पौरा जानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् ।
जनमेजयनामानं राजलक्षणसंयुतम् ॥ ६॥
धात्रेयी शिक्षयामास राजचिह्नानि सर्वशः ।
दिने दिने वर्धमानः स बभूव महामतिः ॥ ७॥
प्राप्ते चैकादशे वर्षे तस्मै कुलपुरोहितः ।
यथोचितां ददौ विद्यां जग्राह स यथोचिताम् ॥ ८॥
धनुर्वेदं कृपः पूर्णं ददावस्मै सुसंस्कृतम् ।
अर्जुनाय यथा द्रोणः कर्णाय भार्गवो यथा ॥ ९॥
सम्प्राप्तविद्यो बलवान्वभूव दुरतिक्रमः ।
धनुर्वेदे तथा वेदे पारगः परमार्थवित् ॥ १०॥
धर्मशास्त्रार्थकुशलः सत्यवादी जितेन्द्रियः ।
चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा ॥ ११॥
ततः सुवर्णवर्माख्यो राजा काशिपतिः किल ।
वपुष्टमां शुभा कन्यां ददौ पारीक्षिताय च ॥ १२॥
स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः ।
काशिराजसुतां कान्तां प्राप्य राजा यथा पुरा ॥ १३॥
विचित्रवीर्यो मुमुदे सुभद्रां च यथार्जुनः ।
विजहार महीपालो वनेषूपवनेषु च ॥ १४॥
तया कमलपत्राक्ष्या शच्या शतक्रतुर्यथा ।
प्रजास्तस्य सुसन्तुष्टा बभूवुः सुखलालिताः ॥ १५॥
मन्त्रिणः कर्मकुशलाश्चक्रुः कार्याणि सर्वशः ।
एतस्मिन्नेव काले तु मुनिरुत्तङ्कनामकः ॥ १६॥
तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात् ।
वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन् ॥ १७॥
परीक्षितसुतं मत्वा तं नृपं समुपागतः ।
कार्याकार्यं न जानासि समये नृपसत्तम ॥ १८॥
अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै ।
किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम् ॥ १९॥
अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् ।
जनमेजय उवाच ।
किं वैरं न मया ज्ञातं न किं प्रतिकृतं मया ॥ २०॥
तद्वद त्वं महाभाग करोमि यदनन्तरम् ।
उत्तङ्क उवाच ।
पिता ते निहतो भूप तक्षकेण दुरात्मना ॥ २१॥
मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् ।
सूत उवाच ।
तच्छ्रुत्वा वचनं राजा पप्रच्छ मन्त्रिसत्तमान् ॥ २२॥
ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः ।
जनमेजय उवाच ।
शापोऽत्र कारणं राज्ञः शप्तस्य मुनिना किल ॥ २३॥
तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम ।
उत्तङ्क उवाच ।
तक्षकेण धनं दत्त्वा कश्यपः सन्निवारितः ॥ २४॥
न स किं तक्षको वैरी पितृहा तव भूपते ।
भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता ॥ २५॥
अविवाहिता तु मुनिना जीविता च पुनः प्रिया ।
रुरुणापि कृता तत्र प्रतिज्ञा चातिदारुणा ॥ २६॥
यं यं सर्पं प्रपश्यामि तं तं हन्म्यायुधेन वै ।
एवं कृत्वा प्रतिज्ञां स शस्त्रपाणी रुरुस्तदा ॥ २७॥
व्यचरत्पृथिवीं राजन्निघ्नन्सर्पान्यतस्ततः ।
एकदा स वने घोरं डुण्डुभं जरसान्वितम् ॥ २८॥
अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययौ ।
अभ्यहन्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥ २९॥
नापराध्नोमि ते विप्र कस्मान्मामभिहंसि वै ।
रुरुरुवाच ।
प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता ॥ ३०॥