स्कन्ध 12, अध्याय 5: श्रीगायत्रीस्तोत्रवर्णनम्, Verse 1
न्यासः द्यौर्मूर्ध्नि दैवतं ।
दन्तपङ्क्तावश्विनौ ।
उभे सन्ध्ये चोष्ठौ ।
मुखमग्निः ।
जिह्वा सरस्वती ।
ग्रीवायां तु बृहस्पतिः ।
स्तनयोर्वसवोऽष्टौ ।
बाह्वोर्मरुतः ।
हृदये पर्जन्यः ।
आकाशमुदरं ।
नाभावन्तरिक्षं ।
कट्यो- रिन्द्राग्नी ।
जघने विज्ञानघनः प्रजापतिः ।
कैलास- मलये ऊरू ।
विश्वेदेवा जान्वोः ।
जङ्घायां कौशिकः ।
गुह्यमयने ।
ऊरू पितरः ।
पादौ पृथिवी ।
वनस्पत- योऽङ्गुलीषु ।
ऋषयो रोमाणि ।
नखानि मुहूर्तानि ।
अस्थिषु ग्रहाः ।
असृङ्मांसमृतवः ।
संवत्सरा वै निमिषम् ।
अहोरात्रावादित्यश्चन्द्रमाः ।
प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ।
ॐ तत्सवितुर्वरेण्याय नमः ।
ॐ तत्पूर्वाजयाय नमः ।
तत्प्रातरादित्याय नमः ।
तत्प्रातरादित्यप्रतिष्ठायै नमः ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
सायम्प्रातरधीयानो अपापो भवति ।
सर्वतीर्थेषु स्नातो भवति ।
सर्वैर्देवैर्ज्ञातो भवति ।
अवाच्यवचनात्पूतो भवति ।
अभक्ष्यभक्षणात्पूतो भवति ।
अभोज्यभोजनापूतो भवति ।
अचोष्यचोष- णात्पूतो भवति ।
असाध्यसाधनात्पूतो भवति ।
दुष्प्रतिग्रहशतसहस्रात्पूतो भवति ।
सर्वप्रतिग्रहात्पूतो भवति ।
पङ्क्तिदूषणात्पूतो भवति ।
अनृतवचनात्पूतो भवति ।
अथाब्रह्मचारी ब्रह्मचारी भवति ।
अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ।
षष्टिशत- सहस्रगायत्र्या जप्यानि फलानि भवन्ति ।
अष्टौ ब्राह्मणान्सम्यग्ग्राहयेत् ।
तस्य सिद्धिर्भवति ।
य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति ।
ब्रह्मलोके महीयते ।
इत्याह भगवान् श्रीनारायणः ।
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १२.५ पञ्चमोऽध्यायः ।
श्रीगायत्रीस्तोत्रवर्णनम् ।
नारद उवाव भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् ।
गायत्र्याः कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ १॥