स्कन्ध 12, अध्याय 4: गायत्रीहृदयम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १२.४ चतुर्थोऽध्यायः ।
गायत्रीहृदयम् ।
नारद उवाच ।
भगवन् देवदेवेश भूतभव्यजगत्प्रभो ।
कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १॥
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १२.४ चतुर्थोऽध्यायः ।
गायत्रीहृदयम् ।
नारद उवाच ।
भगवन् देवदेवेश भूतभव्यजगत्प्रभो ।
कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १॥
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
यद्धारणाद्भवेत्युण्यं गायत्रीजपतोऽखिलम् ॥ २॥
श्रीनारायण उवाच ।
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३॥
विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४॥
पिण्डब्रह्माण्डयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६॥
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् ।
गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७॥
गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८॥