स्कन्ध 12, अध्याय 3: गायत्रीमन्त्रकवचवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १२.३ तृतीयोऽध्यायः ।
गायत्रीमन्त्रकवचवर्णनम् ।
नारद उवाच ।
स्वामिन्सर्वजगन्नाथ संशयोऽस्ति मम प्रभो ।
चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर ॥ १॥