स्कन्ध 11, अध्याय 24: प्रातश्चिन्तनम्, Verse 1
११.२४ चतुर्विंशोऽध्यायः ।
प्रातश्चिन्तनम् ।
नारद उवाच ।
नारायण महाभाग गायत्र्यास्तु समासतः ।
शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ॥ १॥
Containing 102 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.२४ चतुर्विंशोऽध्यायः ।
प्रातश्चिन्तनम् ।
नारद उवाच ।
नारायण महाभाग गायत्र्यास्तु समासतः ।
शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ॥ १॥
श्रीनारायण उवाच ।
अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्भव ।
न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च ॥ २॥
अथ शान्तिः पयोऽक्ताभिः समिद्भिर्जुहुयाद् द्विजः ।
शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः ॥ ३॥
आर्द्राभिः क्षीरवृक्षस्य समिद्भिर्जुहुयाद् द्विजः ।
जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये ॥ ४॥
जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् ।
जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत् ॥ ५॥
कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्भयात् ।
सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः ॥ ६॥
सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा ।
क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा ॥ ७॥
सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले ।
क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः ॥ ८॥
प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् ।
तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन् ॥ ९॥
बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् ।
अभिचारसमुत्पन्ना कृत्या पापं च नश्यति ॥ १०॥
देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे ।
गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते ॥ ११॥
निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च ।
मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा ॥ १२॥
अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये ।
सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा ॥ १३॥
मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् ।
स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः ॥ १४॥
दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः ।
एलाचन्दनकर्पूरजातीपाटलमल्लिकाः ॥ १५॥
बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् ।
सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत् ॥ १६॥
सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् ।
स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः ॥ १७॥
दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः ।
प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत् ॥ १८॥
भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् ।
अभिषेकेण मुच्येत मृत्योरास्यगतो नरः ॥ १९॥
अवश्यं कारयेद्विद्वान्राजा दीर्घं जिजीविषुः ।
गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने ॥ २०॥
दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् ।
जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः ॥ २१॥
भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् ।
गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः ॥ २२॥
एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः ।
आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये ॥ २३॥
वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् ।
मधुत्रितयहोमेन राजयक्ष्मा विनश्यति ॥ २४॥
निवेद्य भास्करायान्नं पायसं होमपूर्वकम् ।
राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात् ॥ २५॥
लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः ।
सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये ॥ २६॥
कुसुमैः शङ्खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् ।
अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः ॥ २७॥
क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति ।
औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत् ॥ २८॥
प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा ।
मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम् ॥ २९॥
कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् ।
उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत् ॥ ३०॥