स्कन्ध 11, अध्याय 23: तप्तकृच्छ्रादिलक्षणवर्णनम्, Verse 1
११.२३ त्रयोविंशोऽध्यायः ।
तप्तकृच्छ्रादिलक्षणवर्णनम् ।
श्रीनारायण उवाच ।
अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः ।
उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः ॥ १॥
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.२३ त्रयोविंशोऽध्यायः ।
तप्तकृच्छ्रादिलक्षणवर्णनम् ।
श्रीनारायण उवाच ।
अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः ।
उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः ॥ १॥
ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः ।
ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले ॥ २॥
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥ ३॥
पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् ।
पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः ॥ ४॥
उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ ५॥
अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते ।
एकाहुतिप्रदानेन कोटियज्ञफलं लभेत् ॥ ६॥
पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् ।
प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च ॥ ७॥
दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् ।
प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ ॥ ८॥
सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः ।
ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत् ॥ ९॥
पूजाकालत्रये नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ १०॥
अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः ।
लघुमिष्टहिताशी च विनीतः शान्तचेतसा ॥ ११॥
नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः ।
स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम् ॥ १२॥
चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम ।
नत्वा नैव च भाषेत जपहोमार्चनादिषु ॥ १३॥
मैथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत् ।
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ १४॥
सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते ।
राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ १५॥
ऋतुस्तातेषु दारेषु सङ्गतिर्या विधानतः ।
संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्नतः ॥ १६॥
रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् ।
ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥ १७॥
तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः ।
अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम् ॥ १८॥
अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् ।
ते देवानामृषीणां च पितॄणामृणिनस्तथा ॥ १९॥
ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः ।
मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत् ॥ २०॥
क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् ।
भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत् ॥ २१॥
लवणं क्षारमम्लं च गृञ्जनं कांस्यभोजनम् ।
ताम्बूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम् ॥ २२॥
श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् ।
वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः ॥ २३॥
गमयेद्देवतापूजास्तोत्रागमविलोकनैः ।
भूशय्या ब्रह्मचारित्वं मौनचर्या तथैव च ॥ २४॥
नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् ।
नित्यपूजा नित्यदानमानन्दस्तुतिकीर्तनम् ॥ २५॥
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ।
जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः ॥ २६॥
नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत् ।
देवताप्रतिमादौ वा वह्नौ वाभ्यर्च्य तन्मुखः ॥ २७॥
स्नानपूजाजपध्यानहोमतर्पणतत्परः ।
निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥ २८॥
एवमादींश्च नियमान्पुरश्चरणकृच्चरेत् ।
तस्माद्द्विजः प्रसन्नात्मा जपहोमपरायणः ॥ २९॥
तपस्यध्ययने युक्तो भवेद्भूतानुकम्पकः ।
तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ ३०॥