स्कन्ध 11, अध्याय 22: वैश्वदेवादिविधिनिरूपणम्, Verse 1
११.२२ द्वाविंशोऽध्यायः ।
वैश्वदेवादिविधिनिरूपणम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् ।
पुरश्चर्याप्रसङ्गेन ममापि स्मृतिमागतम् ॥ १॥
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.२२ द्वाविंशोऽध्यायः ।
वैश्वदेवादिविधिनिरूपणम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां ब्रह्मन् वैश्वदेवविधानकम् ।
पुरश्चर्याप्रसङ्गेन ममापि स्मृतिमागतम् ॥ १॥
देवयज्ञो ब्रह्मयज्ञो भूतयज्ञस्तथैव च ।
पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पञ्चमः ॥ २॥
पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
कण्डणी चोदकुम्भश्च तेषां पापस्य शान्तये ॥ ३॥
न चुल्ल्यां नायसे पात्रे न भूमौ न च खर्परे ।
वैश्वदेवं प्रकुर्वीत कुण्डे वा स्थण्डिलेऽपि वा ॥ ४॥
न पाणिना न शूर्पेण न च मेध्याजिनादिभिः ।
मुखेनोपधमेदग्निं मुखादेव व्यजायत ॥ ५॥
पटकेन भवेद्व्याधिः शूर्पेण धननाशनम् ।
पाणिना मृत्युमाप्नोति कर्मसिद्धिर्मुखेन तु ॥ ६॥
फलैर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः ।
अलाभे येन केनापि काष्ठमूलतृणादिभिः ॥ ७॥
जुहुयात्सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं वा पायसाक्तं तदभावेऽम्भसापि वा ॥ ८॥
शुष्कैः पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी ।
रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः ॥ ९॥
अङ्गारान्भस्ममिश्रांस्तु निर्हृत्योत्तरतोऽनलात् ।
जुहुयाद्वैश्वदेवं तु न क्षारादिविमिश्रितम् ॥ १०॥
अकृत्वा वैश्वदेवं तु यो भुङ्क्ते मूढधीर्द्विजः ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः ॥ ११॥
शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
सङ्कल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि ॥ १२॥
अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते ।
उद्धृत्य वैश्वदेवार्थं भिक्षां दत्त्वा विसर्जयेत् ॥ १३॥
वैश्वदेवकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् ।
न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥ १४॥
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ १५॥
वैश्वदेवानन्तरं च गोग्रासं प्रतिपादयेत् ।
तद्विधानं प्रवक्ष्यामि शृणु देवर्षिपूजित ॥ १६॥
सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता ।
गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम् ॥ १७॥
गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत् ।
गोग्रासेन तु गोमाता सुरभिः सम्प्रसीदति ॥ १८॥
ततो गोदोहनं कालं तिष्ठेच्चैव गृहाङ्गणे ।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ १९॥
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ।
माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः ॥ २०॥
अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः ।
एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम् ॥ २१॥
तस्य नायं तु न परो लोको भवति धर्मतः ।
यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः ॥ २२॥
सम्यक् पञ्चमहायज्ञैर्दरिद्रस्तेन चाप्नुयात् ।
अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुङ्गव ॥ २३॥
यज्ज्ञात्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः ।
परिज्ञानेन मुच्यन्ते नराः पातककिल्बिषैः ॥ २४॥
विधिना भुज्यते येन मुच्येत स ऋणत्रयात् ।
कुलान्युद्धरते विप्रो नरकानेकविंशतिम् ॥ २५॥
सर्वयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति ।
हृत्पुण्डरीकमरणिर्मनो मन्धानसंज्ञकम् ॥ २६॥
वायुरज्ज्वा मथेदग्निं चक्षुरध्वर्युरेव च ।
तर्जनीमध्यमाङ्गुष्ठैः प्राणस्यैवाहुतिं क्षिपेत् ॥ २७॥
मध्यमानामिकाङ्गुष्ठैरपानस्याहुतिं क्षिपेत् ।
कनिष्ठानामिकाङ्गुष्ठैर्व्यानस्य तदनन्तरम् ॥ २८॥
कनिष्ठातर्जन्यङ्गुष्ठैरुदानस्याहुतिं क्षिपेत् ।
सर्वाङ्गुलैर्गृहीत्वान्नं समानस्याहुतिं क्षिपेत् ॥ २९॥
स्वाहान्तान्प्रणवाद्यांश्च नाममन्त्रांश्च वै पठेत् ।
मुखे चाहवनीयस्तु हृदये गार्हपत्यकः ॥ ३०॥