स्कन्ध 11, अध्याय 21: गायत्रीपुरश्चरणविधिकथनम्, Verse 1
११.२१ एकविंशोऽध्यायः ।
गायत्रीपुरश्चरणविधिकथनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां ब्रह्मन् गायत्र्या पापनाशनम् ।
पुरश्चरणकं पुण्यं यथैष्टफलदायकम् ॥ १॥
Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.२१ एकविंशोऽध्यायः ।
गायत्रीपुरश्चरणविधिकथनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां ब्रह्मन् गायत्र्या पापनाशनम् ।
पुरश्चरणकं पुण्यं यथैष्टफलदायकम् ॥ १॥
पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ।
गोष्ठे देवालयेऽश्वत्थे उद्याने तुलसीवने ॥ २॥
पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च ।
पुरश्चरणकृन्मन्त्री सिध्यत्येव न संशयः ॥ ३॥
यस्य कस्यापि मन्त्रस्य पुरश्चरणमारभेत् ।
व्याहृतित्रयसंयुक्तां गायत्रीं चायुतं जपेत् ॥ ४॥
नृसिंहार्कवराहाणां तान्त्रिकं वैदिकं तथा ।
विना जप्त्वा तु गायत्रीं तत्सर्वं निष्कलं भवेत् ॥ ५॥
सर्वे शाक्ता द्विजाः प्रोक्ता न शैवा न च वैष्णवाः ।
आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ ६॥
मन्त्रं संशोध्य यत्नेन पुरश्चरणतत्परः ।
मन्त्रशोधनपूर्वाङ्गमात्मशोधनमुत्तमम् ॥ ७॥
आत्मतत्त्वशोधनाय त्रिलक्षं प्रजपेद्बुधः ।
अथवा चैकलक्षं तु श्रुतिप्रोक्तेन वर्त्मना ॥ ८॥
आत्मशुद्धिं विना कर्तुर्जपहोमादिकाः क्रियाः ।
निष्फलास्तास्तु विज्ञेयाः कारणं श्रुतिचोदितम् ॥ ९॥
तपसा तापयेद्देहं पितृदेवांश्च तर्पयेत् ।
तपसा स्वर्गमाप्नोति तपसा विन्दते महत् ॥ १०॥
क्षत्रियो बाहुवीर्येण तरेदापद आत्मनः ।
धनेन वैश्यः शूद्रस्तु जपहोमैर्द्विजोत्तमः ॥
११
अतएव तु विप्रेन्द्र तपः कुर्यात्प्रयत्नतः ।
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥
१२
शोधयेद्विधिमार्गेण कृच्छ्रचान्द्रायणादिभिः ।
अथान्नशुद्धिकरणं वक्ष्यामि शृणु नारद ॥
१३
अयाचितोञ्छशुक्लाख्यभिक्षावृत्तिचतुष्टयम् ।
तान्त्रिकैर्वैदिकैश्चैवं प्रोक्तान्नस्य विशुद्धता ॥
१४
भिक्षान्नं शुद्धमानीय कृत्वा भागचतुष्टयम् ।
एकं भागं द्विजेभ्यस्तु गोग्रासस्तु द्वितीयकः ॥
१५
अतिथिभ्यस्तृतीयस्तु तदूर्ध्वं तु स्वभार्ययोः ।
आश्रमस्य यथा यस्य कृत्वा ग्रासविधिं क्रमात् ॥
१६
आदौ क्षिप्त्वा तु गोमूत्रं यथाशक्ति यथाक्रमम् ।
तदूर्ध्वं ग्राससङ्ख्या स्याद्वानप्रस्थगृहस्थयोः ॥
१७
कुक्कुटाण्डप्रमाणं तु ग्रासमानं विधीयते ।
अष्टौ ग्रासा गृहस्थस्य वनस्थस्य तदर्धकम् ॥
१८
ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम् ।
प्रोक्षणं नववारं च षड्वारं च त्रिवारकम् ॥
१९
निश्छिद्रं च करं कृत्वा सावित्रीं च तदित्यृचम् ।
मन्त्रमुच्चार्य मनसा प्रोक्षणे विधिरुच्यते ॥
२०
चौरो वा यदि चाण्डालो वैश्यः क्षत्रस्तथैव च ।
अन्नं दद्यात्तु यः कश्चिदधमो विधिरुच्यते ॥
२१
शूद्रान्नं शूद्रसम्पर्कं शूद्रेण च सहाशनम् ।
ते यान्ति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥
२२
गायत्रीच्छन्दो मन्त्रस्य यथासङ्ख्याक्षराणि च ।
तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥
२३
द्वात्रिंशल्लक्षमानं तु विश्वामित्रमतं तथा ।
जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥
२४
पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः ।
ज्येष्ठाषाढौ भाद्रपदं पौषं तु मलमासकम् ॥
२५
अङ्गारं शनिवारं च व्यतीपातं च वैधृतिम् ।
अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥
२६
चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् ।
यमाग्निरुद्रसर्पेन्द्रवसुश्रवणजन्मभम् ॥
२७
मेषकर्कतुलाकुम्भान्मकरं चैव वर्जयेत् ।
सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥
२८
चन्द्रतारानुकूले च शुक्लपक्षे विशेषतः ।
पुरश्चरणकं कुर्यान्मन्त्रसिद्धिः प्रजायते ॥
२९
स्वस्तिवाचनकं कुर्यान्नान्दीश्राद्धं यथाविधि ।
विप्रान्सन्तर्प्य यत्नेन भोजनाच्छादनादिभिः ॥
३०