स्कन्ध 11, अध्याय 20: ब्रह्मयज्ञादिकीर्तनम्, Verse 1
११.२० विंशोऽध्यायः ।
ब्रह्मयज्ञादिकीर्तनम् ।
श्रीनारायण उवाच ।
त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् ।
उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः ॥ १॥
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.२० विंशोऽध्यायः ।
ब्रह्मयज्ञादिकीर्तनम् ।
श्रीनारायण उवाच ।
त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् ।
उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः ॥ १॥
शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके ।
हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत् ॥ २॥
देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् ।
द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत् ॥ ३॥
उपवीते शिखायां च पादमूले सकृत्सकृत् ।
विमुक्तये सर्वपापक्षयार्थं चैवमेव हि ॥ ४॥
सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् ।
गायत्रीं त्रिर्जपेत्पूर्वं चाग्निमीळे ततः परम् ॥ ५॥
यदङ्गेति ततः प्रोच्य अग्निर्वै इति कीर्तयेत् ।
अथ महाव्रतं चैव पन्था एतच्च कीर्तयेत् ॥ ६॥
अथातः संहितायाश्च विदा मघवदित्यपि ।
महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि ॥ ७॥
अग्न आयाहि चेत्येवं शन्तो देवीरितीति च ।
अथ तस्य समाम्नायो वृद्धिरादैजितीव हि ॥ ८॥
अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च ।
मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत् ॥ ९॥
अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि ।
तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि ॥ १०॥
तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् ।
प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः ॥ ११॥
सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च ।
वषट्कारो व्याहृतयः सावित्री च ततः परम् ॥ १२॥
गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि ।
अन्तरिक्षं त्वहोरात्राणि च साङ्ख्या अतः परम् ॥ १३॥
सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् ।
क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा ॥ १४॥
नागा वयांसि गावश्च साध्या विप्रास्तथैव च ।
यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत् ॥ १५॥
अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि ।
शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च ॥ १६॥
विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च ।
वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम् ॥ १७॥
क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः ।
सनातनस्तथैवात्र सनत्कुमार एव च ॥ १८॥
कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः ।
प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम् ॥ १९॥
सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् ।
भाष्यभारतपूर्वं च महाभारत इत्यपि ॥ २०॥
धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् ।
जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः ॥ २१॥
बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् ।
गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका ॥ २२॥
सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् ।
कौषीतकं महाकौषीतकं वै तर्पयेत्ततः ॥ २३॥
भारद्वाजं च पैङ्ग्यं च महापैङ्ग्यं सुयज्ञकम् ।
साङ्ख्यायनमैतरेयं महैतरेयमेव च ॥ २४॥
बाष्कलं शाकलं चैव सुजातवक्त्रमेव च ।
औदवाहिं च सौजामिं शौनकं चाश्वलायनम् ॥ २५॥
ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः ।
ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ॥ २६॥
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।
एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने ॥ २७॥
यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् ।
सर्ववेदाङ्गपाठस्य फलमाप्नोति साधकः ॥ २८॥
वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च ।
अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत् ॥ २९॥
गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह ।
अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम् ॥ ३०॥