स्कन्ध 2, अध्याय 10: परीक्षिन्मरणम्, Verse 1
२.१० दशमोऽध्यायः ।
परीक्षिन्मरणम् ।
सूत उवाच ।
तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् ।
शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः ॥ १॥
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
२.१० दशमोऽध्यायः ।
परीक्षिन्मरणम् ।
सूत उवाच ।
तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् ।
शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः ॥ १॥
वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः ।
अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति ॥ २॥
तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् ।
क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति ॥ ३॥
कश्यप उवाच ।
परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति ।
तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम् ॥ ४॥
मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल ।
जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल ॥ ५॥
तक्षक उवाच ।
अहं स पन्नगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ ६॥
कश्यप उवाच ।
अहं दष्टं त्वया सर्प नृपं शप्तं द्विजेन वै ।
जीवयिष्याम्यसन्देहं कामं मन्त्रबलेन वै ॥ ७॥
तक्षक उवाच ।
यदि त्वं जीवितुं यासि मया दष्टं नृपोत्तमम् ।
मन्त्रशक्तिबलं विप्र दर्शय त्वं ममानघ ॥ ८॥
धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्राभिरद्य वै ।
कश्यप उवाच ।
जीवयिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम ॥ ९॥
सूत उवाच ।
अदशत्पन्नगो वृक्षं भस्मसाच्च चकार तम् ।
उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम ॥ १०॥
दृष्ट्वा भस्मीकृतं वृक्षं पन्नगेन विषाग्निना ।
सर्वं भस्म समाहृत्य कश्यपो वाक्यमब्रवीत् ॥ ११॥
पश्य मन्त्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम ।
जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष ॥ १२॥
इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः ।
सिषेच भस्मराशिं तं मन्त्रितेनैव वारिणा ॥ १३॥
तद्वारिसेचनाज्जातो न्यग्रोधः पूर्ववच्छुभः ।
विस्मयं तक्षकः प्राप्तो दृष्ट्वा तं जीवितं नगम् ॥ १४॥
तमाह कश्यपं नागः किमर्थं ते परिश्रमः ।
सम्पादयामि तं कामं ब्रूहि वाडव वाञ्छितम् ॥ १५॥
कश्यप उवाच ।
वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः ।
गृहादहं चोपकर्तुं विद्यया नृपसत्तमम् ॥ १६॥
तक्षक उवाच ।
वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् ।
ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः ॥ १७॥
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् ।
चिन्तयामास मनसा किं करोमि पुनः पुनः ॥ १८॥
धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः ।
भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात् ॥ १९॥
जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम ।
धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात् ॥ २०॥
रक्षणीयं यशः कामं धिग्धनं यशसा विना ।
सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये ॥ २१॥
हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् ।
उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना ॥ २२॥
जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च ।
अराजके प्रजानाशो भविता नात्र संशयः ॥ २३॥
प्रजानाशस्य पापं मे भविष्यति मृते नृपे ।
अपकीर्तिश्च लोकेषु धनलोभाद्भविष्यति ॥ २४॥
इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः ।
गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः ॥ २५॥
आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः ।
गृहं ययौ स धर्मात्मा धनमादाय तक्षकात् ॥ २६॥
निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् ।
हन्तुकामो जगामाशु नगरं नागसाह्वयम् ॥ २७॥
शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् ।
मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम् ॥ २८॥
चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः ।
चिन्तयामास योगेन प्रविशेयं गृहं कथम् ॥ २९॥
वञ्जयामि कथं चैनं राजानं पापकारिणम् ।
विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम् ॥ ३०॥