स्कन्ध 11, अध्याय 18: बृहद्रथकथानकम्, Verse 1
११.१८ अष्टादशोऽध्यायः ।
बृहद्रथकथानकम् ।
नारद उवाच ।
पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद ।
येनाश्रितेन मनुजः कृतकृत्यत्वमावहेत् ॥ १॥
Containing 72 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.१८ अष्टादशोऽध्यायः ।
बृहद्रथकथानकम् ।
नारद उवाच ।
पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद ।
येनाश्रितेन मनुजः कृतकृत्यत्वमावहेत् ॥ १॥
श्रीनारायण उवाच ।
देवर्षे शृणु वक्ष्यामि श्रीमत्सु पूजनक्रमम् ।
भुक्तिमुक्तिप्रदं साक्षात्समस्तापन्निवारणम् ॥ २॥
आचम्य मौनी सङ्कल्प्य भूतशुद्ध्यादिकं चरेत् ।
मातृकान्यासपूर्वं तु षडङ्गन्यासमाचरेत् ॥ ३॥
शङ्खस्य स्थापनं कृत्वा सामान्यार्घ्यं विधाय च ।
पूजाद्रव्याणि चास्त्रेण प्रोक्षयेन्मतिमान्नरः ॥ ४॥
गुरोरनुज्ञामादाय ततः पूजां समारभेत् ।
पीठपूजां पुरा कृत्वा देवीं ध्यायेत्ततः परम् ॥ ५॥
आसनाद्युपचारैश्च भक्तिप्रेमयुतः सदा ।
स्नापयेत्परदेवीं तां पञ्चामृतरसादिभिः ॥ ६॥
पौण्ड्रेक्षुरसपूर्णैस्तु कलशैः शतसङ्ख्यकैः ।
स्तापयेद्यो महेशानीं न स भूयोऽभिजायते ॥ ७॥
यश्च चूतरसैरेवं स्नापयेज्जगदम्बिकाम् ।
वेदपारायणं कृत्वा रसेनेक्षूद्भवेन वा ॥ ८॥
तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ।
यस्तु द्राक्षारसेनैव वेदपारायणं चरन् ॥ ९॥
अभिषिञ्चेन्महेशानीं सकुटुम्बो नरोत्तमः ।
रसरेणुप्रमाणं च देवीलोके महीयते ॥ १०॥
कर्पूरागुरुकाश्मीरकस्तूरीपङ्कपङ्किलैः ।
सलिलैः स्नापयेद्देवीं वेदपारायणं चरन् ॥ ११॥
भस्मीभवन्ति पापानि शतजन्मार्जितानि च ।
यो दुग्धकलशैर्देवीं स्तापयेद्वेदपाठतः ॥ १२॥
आकल्पं स वसेन्नित्यं तस्मिन् वै क्षीरसागरे ।
यस्तु दध्नाभिषिञ्चेत्तां दधिकुल्यापतिर्भवेत् ॥ १३॥
मधुना च धृतेनैव तथा शर्करयापि च ।
स्नापयेन्मधुकुल्यादिनदीनां स पतिर्भवेत् ॥ १४॥
सहस्रकलशैर्देवीं स्नापयन्भक्तितत्परः ।
इह लोके सुखी भूत्वाप्यन्यलोके सुखी भवेत् ॥ १५॥
क्षौमं वस्त्रद्वयं दत्त्वा वायुलोकं स गच्छति ।
रत्ननिर्मितभूषाणां दाता निधिपतिर्भवेत् ॥ १६॥
काश्मीरचन्दनं दत्त्वा कस्तूरीबिन्दुभूषितम् ।
तथा सीमन्तसिन्दूरं चरणेऽलक्तपत्रकम् ॥ १७॥
इन्द्रासने समारूढो भवेद्देवपतिः परः ।
पुष्पाणि विविधान्याहुः पूजाकर्मणि साधवः ॥ १८॥
तानि दत्त्वा यथालाभं कैलासं लभते स्वयम् ।
बिल्वपत्राण्यमोघानि यो दद्यात्परशक्तये ॥ १९॥
तस्य दुःखं कदाचिच्च क्वचिच्च न भविष्यति ।
बिल्वपत्रत्रये रक्तचन्दनेन तु संल्लिखेत् ॥ २०॥
मायाबीजत्रयं यत्नात्सुस्फुटं चातिसुन्दरम् ।
मायाबीजादिकं नाम चतुर्थ्यन्तं समुच्चरेत् ॥ २१॥
नमोऽन्तं परया भक्त्या देवीचरणपङ्कजे ।
समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम् ॥ २२॥
य एवं कुरुते भक्त्या मनुत्वं लभते हि सः ।
यस्तु कोटिदलैरेवं कोमलैरतिनिर्मलैः ॥ २३॥
पूजयेद्भुवनेशानीं ब्रह्माण्डाधिपतिर्भवेत् ।
कुन्दपुष्पैर्नवीनैस्तु लुलितैरष्टगन्धतः ॥ २४॥
कोटिसङ्ख्यैः पूजयेत्तु प्राजापत्यं लभेद्ध्रुवम् ।
मल्लिकामालतीपुष्पैरष्टगन्धेन लोलितैः ॥ २५॥
कोटिसङ्ख्यैः पूजया तु जायते स चतुर्मुखः ।
दशकोटिभिरप्येवं तैरेव कुसुमैर्मुने ॥ २६॥
विष्णुत्वं लभते मर्त्यो यत्सुरेष्वपि दुर्लभम् ।
विष्णुनैतद्व्रतं पूर्वं कृतं स्वपदलब्धये ॥ २७॥
शतकोटिभिरप्येवं सूत्रात्मत्वं व्रजेद्ध्रुवम् ।
व्रतमेतत्पुरा सम्यक्कृतं भक्त्या प्रयत्नतः ॥ २८॥
तेन व्रतप्रभावेण हिरण्योदरतां व्रजेत् ।
जपाकुसुमपुष्पस्य बन्धूककुसुमस्य च ॥ २९॥
दाडिमीकुसुमस्यापि विधिरेष उदीरितः ।
एवमन्यानि पुष्पाणि श्रीदेव्यै विधिनार्पयेत् ॥ ३०॥