स्कन्ध 11, अध्याय 17: सन्ध्यादिकृत्यवर्णनम्, Verse 1
११.१७ सप्तदशोऽध्यायः ।
सन्ध्यादिकृत्यवर्णनम् ।
श्रीनारायण उवाच ।
भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी ।
अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥ १॥
Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.१७ सप्तदशोऽध्यायः ।
सन्ध्यादिकृत्यवर्णनम् ।
श्रीनारायण उवाच ।
भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी ।
अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥ १॥
अच्छिन्नपादागायत्रीजपं कुर्वन्ति ये द्विजाः ।
अथोमुखाश्च तिष्ठन्ति कल्पकोटिशतानि च ॥ २॥
सम्पुटैका षडोङ्कारा गायत्री विविधा मता ।
धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ॥ ३॥
पञ्चप्रणवसंयुक्तां जपेदित्यनुशासनम् ।
जपसङ्ख्याष्टभागान्ते पादो जप्यस्तुरीयकः ॥ ४॥
स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् ।
अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत् ॥ ५॥
सम्पुटैका षडोङ्कारा भवेत्सा ऊर्ध्वरेतसाम् ।
गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरीयां जपेत् ॥ ६॥
तुरीयपादो गायत्र्याः परोरजसे सावदोम् ।
ध्यानमस्य प्रवक्ष्यामि जपसाङ्गफलप्रदम् ॥ ७॥
हृदि विकसितपद्मं सार्कसोमाग्निबिम्बं प्रणवमयमचिन्त्यं यस्य पीतं प्रकल्प्यम् ।
अचलपरमसूक्ष्मं ज्योतिराकाशसारं भवतु मम मुदेऽसौ सच्चिदानन्दरूपः ॥ ८॥
त्रिशूलयोनी सुरभिमक्षमालां च लिङ्गकम् ।
अम्बुजं च महामुद्रामिति सप्त प्रदर्शयेत् ॥ ९॥
या सन्ध्या सैव गायत्री सच्चिदानन्दरूपिणी ।
भक्त्या तां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः ॥ १०॥
ध्यातस्य पूजां कुर्वीत पञ्चभिश्चोपचारकैः ।
लं पृथिव्यात्मने गन्धमर्पयामि नमो नमः ॥ ११॥
हमाकाशात्मने पुष्पं चार्पयामि नमो नमः ।
यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत् ॥ १२॥
रं च वह्न्यात्मने दीपमर्पयामि ततो वदेत् ।
वममृतात्मने तस्मै नैवेद्यमपि चार्पयेत् ॥ १३॥
यं रं लं वं हमिति च पुष्पाञ्जलिमथार्पयेत् ।
एवं पूजां विधायाथ चान्ते मुद्राः प्रदर्शयेत् ॥ १४॥
ध्यायेत्तु मनसा देवीं मन्त्रमुच्चारयेच्छनैः ।
न कम्पयेच्छिरो ग्रीवा दन्तान्नैव प्रकाशयेत् ॥ १५॥
विधिनाष्टोत्तरशतमष्टाविंशतिरेव वा ।
दशवारमशक्तो वा नातो न्यूनं कदाचन ॥ १६॥
तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः ।
न गायत्रीं जपेद्विद्वाञ्जलमध्ये कथञ्चन ॥ १७॥
यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः ।
सुरभिर्ज्ञानशूर्पं च कूर्मो योनिश्च पङ्कजम् ॥ १८॥
लिङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत् ।
यदक्षरपदभ्रष्टं स्वरव्यञ्जनवर्जितम् ॥ १९॥
तत्सर्वं क्षम्यतां देवि कश्यपप्रियवादिनि ।
गायत्रीतर्पणं चातः करणीयं महामुने ॥ २०॥
गायत्री छन्द आख्यातं विश्वामित्रऋषिः स्मृतः ।
सविता देवता प्रोक्ता विनियोगश्च तर्पणे ॥ २१॥
भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च ।
भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत् ॥ २२॥
स्वर्व्याहृतिं समुक्त्वा च सामवेदं समुच्चरेत् ।
मह इत्येतदुक्त्वान्तेऽथर्ववेदं च तर्पयेत् ॥ २३॥
जनः पदान्त इतिहासपुराणमितीरयेत् ।
तपः सर्वागमं चैव पुरुषं तर्पयामि च ॥ २४॥
सत्यं च सत्यलोकाख्यपुरुषं तर्पयामि च ।
ॐ भूर्भूर्लोकपुरुषं तर्पयामि ततो वदेत् ॥ २५॥
भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च ।
स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम् ॥ २६॥
ओम्भूरेकपदा नाम गायत्रीं तर्पयामि च ।
भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत् ॥ २७॥
स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत् ।
ओम्भूर्भुवः स्वश्चेति तथा गायत्रीं च चतुष्पदाम् ॥ २८॥
उषसीं चैव गायत्रीं सावित्रीं च सरस्वतीम् ।
वेदानां मातरं पृथ्वीमजां चैव तु कौशिकीम् ॥ २९॥
साङ्कृतिं वै सार्वजितिं गायत्रीं तर्पणे वदेत् ।
तर्पणान्ते च शान्त्यर्थं जातवेदसमीरयेत् ॥ ३०॥