स्कन्ध 11, अध्याय 16: सन्ध्योपासननिरूपणम्, Verse 1
११.१६ षोडशोऽध्यायः ।
सन्ध्योपासननिरूपणम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् ।
भस्मधारणमाहात्म्यं कथितं चैव विस्तरात् ॥ १॥
Containing 108 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.१६ षोडशोऽध्यायः ।
सन्ध्योपासननिरूपणम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां पुण्यं सन्ध्योपासनमुत्तमम् ।
भस्मधारणमाहात्म्यं कथितं चैव विस्तरात् ॥ १॥
प्रातःसन्ध्याविधानं च कथयिष्यामि तेऽनघ ।
प्रातःसन्ध्यां सनक्षत्रां मध्याह्ने मध्यभास्कराम् ॥ २॥
ससूर्यां पश्चिमां सन्ध्यां तिस्रः सन्ध्या उपासते ।
तद्भेदानपि वक्ष्यामि शृणु देवर्षिसत्तम ॥ ३॥
उत्तमा तारकोपेता मध्यमा लुप्ततारका ।
अधमा सूर्यसहिता प्रातःसन्ध्या त्रिधा मता ॥ ४॥
उत्तमा सूर्यसहिता मध्यमास्तमिते रवौ ।
अधमा तारकोपेता सायंसन्ध्या त्रिधा मता ॥ ५॥
विप्रो वृक्षो मूलकान्यत्र सन्ध्या वेदः शाखा धर्मकर्माणि पत्रम् ।
तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव वृक्षो न शाखा ॥ ६॥
सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता ।
जीवमानो भवेच्छूद्रो मृतः श्वा चैव जायते ॥ ७॥
तस्मान्नित्यं प्रकर्तव्यं सन्ध्योपासनमुत्तमम् ।
तदभावेऽन्यकर्मादावधिकारी भवेन्न हि ॥ ८॥
उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् ।
तावत्सन्ध्यामुपासीत प्रायश्चित्तं ततः परम् ॥ ९॥
कालातिक्रमणे जाते चतुर्थार्घ्यं प्रदापयेत् ।
अथवाष्टशतं देवीं जप्त्वादौ तां समाचरेत् ॥ १०॥
यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम् ।
सन्ध्यामुपास्य पश्चात्तु तत्कालीनं समाचरेत् ॥ ११॥
गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत् ।
नदीतीरे चोत्तमा स्याद्देवीगेहे तदुत्तमा ॥ १२॥
यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ ।
सन्ध्यात्रयं प्रकर्तव्यं तदानन्त्याय कल्पते ॥ १३॥
एतस्या अपरं दैवं ब्राह्मणानां च विद्यते ।
न विष्णूपासना नित्या न शिवोपासना तथा ॥ १४॥
यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता ।
सर्ववेदसारभूता गायत्र्यास्तु समर्चना ॥ १५॥
ब्रह्मादयोऽपि सन्ध्यायां तां ध्यायन्ति जपन्ति च ।
वेदा जपन्ति तां नित्यं वेदोपास्या ततः स्मृता ॥ १६॥
तस्मात्सर्वे द्विजाः शाक्ता न शैवा न च वैष्णवाः ।
आदिशक्तिमुपासन्ते गायत्रीं वेदमातरम् ॥ १७॥
आचान्तः प्राणमायम्य केशवादिकनामभिः ।
केशवश्च तथा नारायणो माधव एव च ॥ १८॥
गोविन्दो विष्णुरेवाथ मधुसूदन एव च ।
त्रिविक्रमो वामनश्च श्रीधरोऽपि ततः परम् ॥ १९॥
हृषीकेशः पद्मनाभो दामोदर अतः परम् ।
सङ्कर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः ॥ २०॥
पुरुषोत्तमाधोक्षजौ च नारसिंहोऽप्युतस्तथा ।
जनार्दन उपेन्द्रश्च हरिः कृष्णोऽन्तिमस्तथा ॥ २१॥
ओङ्कारपूर्वकं नाम चतुर्विंशतिसङ्ख्यया ।
स्वाहान्तैः प्राशयेद्वारि नमोऽन्तैः स्पर्शयेत्तथा ॥ २२॥
केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ ।
मुखं प्रक्षालयेद्द्वाभ्यां द्वाभ्यामुन्मार्जनं तथा ॥ २३॥
एकेन पाणिं सम्प्रोक्ष्य पादावपि शिरोऽपि च ।
सङ्कर्षणादिदेवानां द्वादशाङ्गानि संस्पृशेत् ॥ २४॥
दक्षिणेनोदकं पीत्वा वामेन संस्पृशेद्बुधः ।
तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत् ॥ २५॥
गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत् ।
ततो न्यूनाधिकं पीत्वा सुरापायी भवेद्द्विजः ॥ २६॥
संहताङ्गुलिना तोयं पाणिना दक्षिणेन तु ।
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः ॥ २७॥
प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम् ।
गायत्रीं शिरसा सार्धं तुरीयपदसंयुताम् ॥ २८॥
दक्षिणे रेचयेद्वायुं वामेन पूरितोदरम् ।
कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः ॥ २९॥
पीडयेद्दक्षिणां नाडीमङ्गुष्ठेन तथोत्तराम् ।
कनिष्ठानामिकाभ्यां तु मध्यमां तर्जनीं त्यजेत् ॥ ३०॥