स्कन्ध 11, अध्याय 15: त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम्, Verse 1
११.१५ पञ्चदशोऽध्यायः ।
त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।
श्रीनारायण उवाच ।
अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् ।
धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः ॥ १॥
Containing 120 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.१५ पञ्चदशोऽध्यायः ।
त्रिपुण्ड्रोर्ध्वपुण्ड्रधारणविधिवर्णनम् ।
श्रीनारायण उवाच ।
अग्निरित्यादिभिर्मन्त्रैर्भस्म संशोध्य सादरम् ।
धारणीयं ललाटादौ त्रिपुण्ड्रं केवलं द्विजैः ॥ १॥
ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्मृताः ।
तस्माद्द्विजैः प्रयत्नेन त्रिपुण्ड्रं धार्यमन्वहम् ॥ २॥
यस्योपनयनं ब्रह्मन् स एव द्विज उच्यते ।
तस्माच्छ्रौतं द्विजैः कार्यं त्रिपुण्ड्रस्य च धारणम् ॥ ३॥
विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत् ।
तत्कृतं चाकृतप्रायं भवत्येव न संशयः ॥ ४॥
न गायत्र्युपदेशोऽपि भस्मनो धारणं विना ।
ततो धृत्वैव भस्माङ्गे गायत्रीजपमाचरेत् ॥ ५॥
गायत्रीं मूलमेवाहुर्ब्राह्मण्ये मुनिपुङ्गव ।
सा भस्मधारणाभावे न केनाप्युपदिश्यते ॥ ६॥
न तावदधिकारोऽस्ति गायत्रीग्रहणे मुने ।
यावन्न भस्म भालादौ धृतमग्निसमुद्भवम् ॥ ७॥
भस्महीनललाटत्वं न ब्रह्मण्यानुमापकम् ।
एवमेव मया ब्रह्मन् हेतुरुक्तः सुपुण्यदः ॥ ८॥
मन्त्रपूतं सितं भस्म ललाटे परिवर्तते ।
स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते ॥ ९॥
यस्यास्ति सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे ।
स एव ब्राह्मणो ब्रह्मन् सत्यं सत्यं मयोच्यते ॥ १०॥
न यस्य सहजा प्रीतिर्मणिवद्भस्मसङ्ग्रहे ।
स चाण्डाल इति ज्ञेयो जन्मजन्मान्तरे ध्रुवम् ॥ ११॥
न यस्य सहजा प्रीतिस्त्रिपुण्ड्रोद्धूलनादिषु ।
स चाण्डाल इति ज्ञेयः सत्यं सत्यं मयोच्यते ॥ १२॥
ये भस्मधारणं त्यक्त्वा भुञ्जन्ते च फलादिकम् ।
ते सर्वे नरकं घोरं प्राप्नुवन्ति न संशयः ॥ १३॥
(विभूतिधारणं त्यक्त्वा यः शिवं पूजयिष्यति ।
स दुर्भगः शिवद्वेष्टा स द्वेषो नरकप्रदः ।
सर्वकर्मबहिर्भूतो भस्मधारणवर्जितः ॥
)
विभूतिधारणं त्यक्त्वा कुर्वन् हेमतुलामपि ।
न तत्फलमवाप्नोति पतितो हि भवेद्धि सः ॥ १४॥
यथोपवीतरहितैः सन्ध्या न क्रियते द्विजैः ।
तथा सन्ध्या न कर्तव्या विभूतिरहितैरपि ॥ १५॥
गतोपवीतैः सन्ध्यायां कार्यः प्रतिनिधिः क्वचित् ।
जपादिकं तु सावित्र्यास्तथैवोपोषणादिकम् ॥ १६॥
विभूतिधारणे त्वन्यो नास्ति प्रतिनिधिः क्वचित् ।
विभूतिधारणं त्यक्त्वा यदि सन्ध्यां करोति यः ॥ १७॥
प्रत्यवैत्येव येनासौ नाधिकारी तदा द्विजः ।
यथा श्रुत्वान्त्यजो वेदान्प्रत्यवैति तथा द्विजः ॥ १८॥
प्रत्यवैति न सन्देहः सन्ध्याकृद्भस्मवर्जितः ।
सम्पादनीय यत्नेन श्रौतं भस्म सदा द्विजैः ॥ १९॥
स्मार्तं वा तदभावे तु लौकिकं वा समाहितैः ।
यादृशं तादृशं वास्तु पवित्रं भस्म सन्ततम् ॥ २०॥
धारणीयं प्रयत्नेन द्विजैः सन्ध्यादिकर्मसु ।
न संविशन्ति पापानि भस्मनिष्ठे ततः सदा ॥ २१॥
कर्तव्यमपि यत्नेन ब्राह्मणैर्भस्मधारणम् ।
मध्याङ्गुलित्रयेणैव स्वदक्षिणकरस्य तु ॥ २२॥
षडङ्गुलायतं मानमपि चाधिकमानकम् ।
नेत्रयुग्मप्रमाणेन भाले दीप्तं त्रिपुण्ड्रकम् ॥ २३॥
कदाचिद्भस्मना कुर्यात्स रुद्रो नात्र संशयः ।
अकारोऽनामिका प्रोक्त उकारो मध्यमाङ्गुलिः ॥ २४॥
मकारस्तर्जनी तस्मात् त्रिपुण्ड्रं त्रिगुणात्मकम् ।
त्रिपुण्ड्रं मध्यमातर्जन्यनामाभिरनुलोमतः ॥ २५॥
अत्र ते कथयाम्येनमितिहासं पुरातनम् ।
कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत् ॥ २६॥
भस्मसन्दिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः ।
शिव शङ्कर सर्वात्मञ्छ्रीमातर्जगदम्बिके ॥ २७॥
नामानीति गृणन्नुच्चैस्तापसानां शिखामणिः ।
कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः ॥ २८॥
आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे ।
नानाकथाभिरन्योन्यं सम्भाषाञ्चक्रिरे तदा ॥ २९॥