स्कन्ध 11, अध्याय 14: विभूतिधारणमाहात्म्यवर्णनम्, Verse 1
११.१४ चतुर्दशोऽध्यायः ।
विभूतिधारणमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
भस्मदिग्धशरीराय यो ददाति धनं मुदा ।
तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥ १॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.१४ चतुर्दशोऽध्यायः ।
विभूतिधारणमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
भस्मदिग्धशरीराय यो ददाति धनं मुदा ।
तस्य सर्वाणि पापानि विनश्यन्ति न संशयः ॥ १॥
श्रुतयः स्मृतयः सर्वाः पुराणान्यखिलान्यपि ।
वदन्ति भूतिमाहाम्यं तत्तस्माद्धारयेद्द्विजः ॥ २॥
सितेन भस्मना कुर्यात्त्रिसन्ध्यं यस्त्रिपुण्ड्रकम् ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥ ३॥
योगी सर्वाङ्गकं स्तानमापादतलमस्तकम् ।
त्रिसन्ध्यमाचरेन्नित्यमाशु योगमवाप्नुयात् ॥ ४॥
भस्मस्नानेन पुरुषः कुलस्योद्धारको भवेत् ।
भस्मस्नानं जलस्नानादसङ्ख्येयगुणान्वितम् ॥ ५॥
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं लभते सर्वं भस्मस्नानान्न संशयः ॥ ६॥
महापातकयुक्तो वा युक्तो वाप्युपपातकैः ।
भस्मस्नानेन तत्सर्वं दहत्यग्निरिवेन्धनम् ॥ ७॥
भस्मस्नानात्परं स्नानं पवित्रं नैव विद्यते ।
एवमुक्तं शिवेनादौ तदा स्नातः स्वयं शिवः ॥ ८॥
तदाप्रभृति ब्रह्माद्या मुनयश्च शिवार्थिनः ।
सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे ॥ ९॥
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् ।
अनेनैव शरीरेण स हि रुद्रो न संशयः ॥ १०॥
ये भस्मधारिणं दृष्ट्वा परितृप्ता भवन्ति ते ।
देवासुरमुनीन्द्रैश्च पूज्या नित्यं न संशयः ॥ ११॥
भस्मसञ्छन्नसर्वाङ्गं दृष्ट्वोत्तिष्ठति यः पुमान् ।
तं दृष्ट्वा देवराजोऽपि दण्डवत्प्रणमिष्यति ॥ १२॥
अभक्ष्यभक्षणं येषां भस्मधारणपूर्वकम् ।
तेषां तद्भक्ष्यमेव स्यान्मुने नात्र विचारणा ॥ १३॥
यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽऽथवादरात् ॥ १४॥
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।
आग्नेयं भस्मना स्नानं यतीनां च विशिष्यते ॥ १५॥
आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः ।
आर्द्रं तु प्रकृतिं विद्यात्प्रकृतिं बन्धनं विदुः ॥ १६॥
प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते ।
भस्मना सदृशं ब्रह्यन्नास्ति लोकत्रयेष्वपि ॥ १७॥
रक्षार्थं मङ्गलार्थं च पवित्रार्थं पुरा सुरैः ।
भस्म दृष्ट्वा मुने पूर्वं दत्तं देव्यै प्रियेण तु ॥ १८॥
तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् ।
भवपाशैर्विनिर्मुक्तः शिवलोके महीयते ॥ १९॥
ज्वररक्षःपिशाचाश्च पूतनाकुष्ठगुल्मकाः ।
भगन्दराणि सर्वाणि चाशीतिर्वातरोगकाः ॥ २०॥
चतुःषष्टिः पित्तरोगाः श्लेष्मा सप्तत्रिपञ्चकाः ।
व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि ॥ २१॥
भस्मस्नानेन नश्यन्ति सिंहेनैव यथा गजाः ।
शुद्धशीतजलेनैव भस्मना च त्रिपुण्ड्रकम् ॥ २२॥
यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः ।
(भस्मना च त्रिपुण्ड्रं च यः कोऽपि धारयेत्परम् ।
स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः ॥
)
यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ॥ २३॥
नाशयेल्लिखितां यामीं ललाटस्थां लिपिं ध्रुवम् ।
कण्ठोपरिकृतं पापं नाशयेत्तत्प्रधारणात् ॥ २४॥
कण्ठे च धारणात्कण्ठभोगादिकृतपातकम् ।
बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् ॥ २५॥
नाभ्यां शिश्नकृतं पापं गुदे गुदकृतं हरेत् ।
पार्श्वयोर्धारणाद्ब्रह्मन् परस्त्र्यालिङ्गनादिकम् ॥ २६॥
तद्भस्मधारणं शस्तं सर्वत्रैव त्रिलिङ्गकम् ।
ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ॥ २७॥
गुणलोकत्रयाणां च धारणं तेन वै कृतम् ।
भस्मच्छन्नो द्विजो विद्वान्महापातकसम्भवैः ॥ २८॥
दोषैर्वियुज्यते सद्यो मुच्यते च न संशयः ।
भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ॥ २९॥