स्कन्ध 11, अध्याय 13: त्रिपुण्डधारणमाहात्म्यवर्णनम्, Verse 1
११.१३ त्रयोदशोऽध्यायः ।
त्रिपुण्डधारणमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
महापातकसङ्घाश्च पातकान्यपराण्यपि ।
नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ॥ १॥
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.१३ त्रयोदशोऽध्यायः ।
त्रिपुण्डधारणमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
महापातकसङ्घाश्च पातकान्यपराण्यपि ।
नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ॥ १॥
एकं भस्म धृतं येन तस्य पुण्यफलं शृणु ।
यतीनां ज्ञानदं प्रोक्तं वानस्थानां विरक्तिदम् ॥ २॥
गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा ।
ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च ॥ ३॥
शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम् ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ४॥
रक्षार्थं सर्वभूतानां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ५॥
यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ६॥
सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ७॥
माहेश्वराणां लिङ्गार्थं विधत्ते वैदिकी श्रुतिः ।
भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रकम् ॥ ८॥
विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः ।
शिवेन विष्णुना चैव ब्रह्मणा वज्रिणा तथा ॥ ९॥
हिरण्यगर्भेण तदवतारैर्वरुणादिभिः ।
देवताभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मकम् ॥ १०॥
उमादेव्या च लक्ष्या च वाचा चान्याभिरास्तिकैः ।
सर्वस्त्रीभिर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ ११॥
यक्षराक्षसगन्धर्वसिद्धविद्याधरादिभिः ।
मुनिभिश्च धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १२॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेरपि च सङ्करैः ।
अपभ्रंशैर्धृतं भस्म त्रिपुण्ड्रोद्धूलनात्मना ॥ १३॥
उद्धूलनं त्रिपुण्ड्रं च यैः समाचरितं मुदा ।
त एव शिष्टा विद्वांसो नेतरे मुनिपुङ्गव ॥ १४॥
शिवलिङ्गं मणिः सख्यं मन्त्रः पञ्चाक्षरस्तथा ।
विभूतिरौषधं पुंसां मुक्तिस्त्रीवश्यकर्मणि ॥ १५॥
भुनक्ति यत्र भस्माङ्गो मूर्खो वा पण्डितोऽपि वा ।
तत्र भुङ्क्ते महादेवः सपत्नीको वृषध्वजः ॥ १६॥
भस्मसञ्छन्नसर्वाङ्गमनुगच्छति यः पुमान् ।
सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात् ॥ १७॥
भस्मसञ्छन्नसर्वाङ्गं यः स्तौति श्रद्धया सह ।
सर्वपातकयुक्तोऽपि पूज्यते मानवोऽचिरात् ॥ १८॥
त्रिपुण्ड्रधारिणे भिक्षाप्रदानेन हि केवलम् ।
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥ १९॥
येन विप्रेण शिरसि त्रिपुण्ड्रं भस्मना कृतम् ।
कीकटेष्वपि देशेषु यत्र भूतिविभूषणः ॥ २०॥
मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं हि तत् ।
दुःशीलः शीलयुक्तो वा योगयुक्तोऽप्यलक्षणः ॥ २१॥
भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत् ।
छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम् ॥ २२॥
सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि ।
सम्पर्काल्लीलया वापि भयाद्वा धारयेत्तु यः ॥ २३॥
विधियुक्तो विभूतिं तु स च पूज्यो यथा ह्यहम् ।
शिवस्य विष्णोर्देवानां ब्रह्मणस्तृप्तिकारणम् ॥ २४॥
पार्वत्याश्च महालक्ष्या भारत्यास्तृप्तिकारणम् ।
न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः ॥ २५॥
न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते ।
दानं यज्ञाश्च धर्माश्च तीर्थयात्राश्च नारद ॥ २६॥
ध्यानं तपस्त्रिपुण्ड्रस्य कलां नार्हन्ति षोडशीम् ।
यथा राजा स्वचिह्नाङ्कं स्वजनं मन्यते सदा ॥ २७॥
तथा शिवस्त्रिपुण्ड्राङ्कं स्वकीयमिव मन्यते ।
द्विजातिर्वान्यजातिर्वा शुद्धचित्तेन भस्मना ॥ २८॥
धारयेद्यस्त्रिपुण्ड्राङ्कं रुद्रस्तेन वशीकृतः ।
त्यक्तसर्वाश्रमाचारो लुप्तसर्वक्रियोऽपि सः ॥ २९॥
सकृत्तिर्यक्त्रिपुण्ड्राङ्कं धारयेत्सोऽपि मुच्यते ।
नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा ॥ ३०॥