स्कन्ध 11, अध्याय 12: भस्मधारणमाहाम्यवर्णनम्, Verse 1
११.१२ द्वादशोऽध्यायः ।
भस्मधारणमाहाम्यवर्णनम् ।
श्रीनारायण उवाच ।
देवर्षे शृणु तत्सर्वं भस्मोद्धूलनजं फलम् ।
सरहस्यविधानं च सर्वकामफलप्रदम् ॥ १॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.१२ द्वादशोऽध्यायः ।
भस्मधारणमाहाम्यवर्णनम् ।
श्रीनारायण उवाच ।
देवर्षे शृणु तत्सर्वं भस्मोद्धूलनजं फलम् ।
सरहस्यविधानं च सर्वकामफलप्रदम् ॥ १॥
कपिलायाः शकृत्स्वच्छं गृहीत्वा गगनेऽपतत् ।
न क्लिन्नं नापि कठिनं न दुर्गन्धं न चोषितम् ॥ २॥
उपर्यधः परित्यज्य गह्णीयात्पतितं यदि ।
पिण्डीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमन्त्रितम् ॥ ३॥
आदाय वाससाऽऽच्छाद्य भस्माधाने विनिक्षिपेत् ।
सुकृते सुदृढे शुद्धे क्षालिते प्रोक्षिते शुभे ॥ ४॥
विन्यस्य मन्त्री मन्त्रेण पात्रे भस्म विनिक्षिपेत् ।
तैजसं दारवं चाथ मृण्मयं चैलमेव च ॥ ५॥
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ।
क्षौमे चैवातिशुद्धे वा धनवद्भस्म निक्षिपेत् ॥ ६॥
प्रस्थितो भस्म गृह्णीयात्स्वयं चानुचरोऽपि वा ।
न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत् ॥ ७॥
न संस्पृशेत्तु नीचाङ्गैर्न क्षिपेन्न च लङ्घयेत् ।
तस्माद्भसितमादाय विनियुञ्जीत मन्त्रितम् ॥ ८॥
विभूतिधारणविधिः स्मृतिप्रोक्तो मयेरितः ।
यदीयाचरणेनैव शिवतुल्यो न संशयः ॥ ९॥
शैवैः सम्पादितं भस्म वैदिकैः शिवसन्निधौ ।
भक्त्या परमया ग्राह्यं प्रार्थयित्वा तु पूजयेत् ॥ १०॥
तन्त्रोक्तवर्त्मना सिद्धं भस्म तान्त्रिकपूजकैः ।
यत्रकुत्रापि दत्तं चेत्तद्ग्राह्यं नैव वैदिकैः ॥ ११॥
शूद्रैः कापालिकैर्वाथ पाखण्डैरपरैस्तु तत् ।
त्रिपुण्ड्रं धारयेद्भक्त्या मनसापि न लङ्घयेत् ॥ १२॥
श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् ।
त्रिपुण्ड्रधारणं भक्त्या तथा देहावगुण्ठनम् ॥ १३॥
द्विजः कुर्याद्धि मन्त्रेण तत्त्यागी पतितो भवेत् ।
उद्धूलनं त्रिपुण्ड्रं च भक्त्या नैवाचरन्ति ये ॥ १४॥
तेषां नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः ।
येन भस्मोक्तमार्गेण धृतं न मुनिपुङ्गव ॥ १५॥
तस्य विद्धि मुने जन्म निष्कलं सौकरं यथा ।
येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम् ॥ १६॥
श्मशानसदृशं तत्स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः ।
धिग्भस्मरहितं भालं धिग्ग्राममशिवालयम् ॥ १७॥
धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् ।
त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ॥ १८॥
धारयन्ति च ये भक्त्या धारयन्ति तमेव ते ।
यथा कृशानुरहितो भूधरो न विराजते ॥ १९॥
अशेषसाधनेऽप्येवं भस्महीनं शिवार्चनम् ।
उद्धूलनं त्रिपुण्ड्रं च श्रद्धया नाचरन्ति ये ॥ २०॥
तैः पूर्वाचरितं सर्वं विपरीतं भवेदपि ।
भस्मना वेदमन्त्रेण त्रिपुण्ड्रस्य च धारणम् ॥ २१॥
विना वेदोचिताचारं स्मार्तस्यानर्थकारणम् ।
कृतं स्यादकृतं तेन श्रुतमप्यश्रुतं भवेत् ॥ २२॥
अधीतमनधीतं च त्रिपुण्ड्रं यो न धारयेत् ।
वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः ॥ २३॥
वृथा व्रतोपवासेन त्रिपुण्ड्रं यो न धारयेत् ।
भस्मधारणकं त्यक्त्वा मुक्तिमिच्छति यः पुमान् ॥ २४॥
विषपानेन नित्यत्वं कुरुते ह्यात्मनो हि सः ।
स्रष्टा सृष्टिच्छलेनाह त्रिपुण्ड्रस्य च धारणम् ॥ २५॥
ससर्ज स ललाटं हि तिर्यगूर्ध्वं न वर्तुलम् ।
तिर्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम् ॥ २६॥
तथापि मानवा मूर्खा न कुर्वन्ति त्रिपुण्ड्रकम् ।
न तद्ध्यानं न तन्मोक्षं न तज्ज्ञानं न तत्तपः ॥ २७॥
विना तिर्यक्त्रिपुण्ड्रं च विप्रेण यदनुष्ठितम् ।
वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् ॥ २८॥
त्रिपुण्ड्रेण विना विप्रो नाधिकारी शिवार्चने ।
प्राङ्मुखश्चरणौ हस्तौ प्रक्षाल्याचम्य पूर्ववत् ॥ २९॥
प्राणानायम्य सङ्कल्प्य भस्मस्नानं समाचरेत् ।
आदाय भसितं शुद्धमग्निहोत्रसमुद्भवम् ॥ ३०॥