Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 1

११.१० दशमोऽध्यायः ।

भस्ममाहात्म्ये पाशुपतव्रतवर्णनम् ।

श्रीनारायण उवाच ।

आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम् ।

गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदांवर ॥ १॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 2

अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने ।

औपासनसमुत्पन्नं समिदग्निसमुद्भवम् ॥ २॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 3

पचनाग्निसमुत्पन्नं दावानलसमुद्भवम् ।

त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 4

विरजानलजं चैव धार्यं भस्म महामुने ।

औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 5

समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा ।

शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 6

अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् ।

कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 7

क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः ।

तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 8

अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च ।

पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 9

शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः ।

दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 10

प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ।

ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 11

व्रतमेतत्करोमीति भवेत्सङ्कल्पदीक्षितः ।

यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 12

तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ।

तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 13

दिनद्वादशकं वापि दिनषट्कमथापि वा ।

तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 14

अग्निमाधाय विधिवद्विरजाहोमकारणात् ।

हुत्वाऽऽज्येन समिद्भिश्च चरुणा च यथाविधि ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 15

पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् ।

जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 16

तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् ।

पश्चाद्भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 17

ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः ।

त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 18

मनो बुद्धिरहङ्कारो गुणाः प्रकृतिपूरुषौ ।

रागो विद्या कला चैव नियतिः काल एव च ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 19

माया च शुद्धविद्या च महेश्वरसदाशिवौ ।

शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 20

मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् ।

अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 21

न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् ।

प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 22

तस्मिन्दिने निराहारः कालशेषं समापयेत् ।

प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 23

उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः ।

ततश्च जटिलो मुण्डः शिखैकजट एव च ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 24

भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः ।

अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 25

एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली ।

प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 26

सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् ।

अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 27

विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् ।

ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 28

सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ।

ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 29

शिवभावं समागम्य शिवभावमथाचरेत् ।

कुर्यात्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 10: भस्ममाहात्म्ये पाशुपतव्रतवर्णनम्, Verse 30

भुक्तिमुक्तिप्रदं चैव पशुत्वं विनिवर्तयेत् ।

तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ ३०॥