स्कन्ध 2, अध्याय 9: परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम्, Verse 1
२.९ नवमोऽध्यायः ।
परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।
परीक्षिदुवाच ।
कामार्तः स मुनिर्गत्वा रुरुः सुप्तो निजाश्रमे ।
पिता पप्रच्छ दीनं तं किं रुरो विमना असि ॥ १॥
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
२.९ नवमोऽध्यायः ।
परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।
परीक्षिदुवाच ।
कामार्तः स मुनिर्गत्वा रुरुः सुप्तो निजाश्रमे ।
पिता पप्रच्छ दीनं तं किं रुरो विमना असि ॥ १॥
स तमाहातिकामार्तः स्थूलकेशस्य चाश्रमे ।
कन्या प्रमद्वरा नाम सा मे भार्या भवेदिति ॥ २॥
स गत्वा प्रमतिस्तूर्णं स्थूलकेशं महामुनिम् ।
प्रमुह्य सुमुखं कृत्वा ययाचे तां वराननाम् ॥ ३॥
ददौ वाचं स्थूलकेशः प्रदास्यामि शुभेऽहनि ।
विवाहार्थं च सम्भारं रचयामासतुर्वने ॥ ४॥
प्रमतिः स्थूलकेशश्च विवाहार्थं समुद्यतौ ।
बभूवतुर्महात्मानौ समीपस्थौ तपोवने ॥ ५॥
तस्मिन्नवसरे कन्या रममाणा गृहाङ्गणे ।
प्रसुप्तं पन्नगं पादेनास्पृशच्चारुलोचना ॥ ६॥
दष्टा तु पन्नगेनाथ सा ममार वराङ्गना ।
कोलाहलस्तदा जातो मृतां दृष्ट्वा प्रमद्वराम् ॥ ७॥
मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः ।
भूमौ तां पतितां दृष्ट्वा पिता तस्यातिदुःखितः ॥ ८॥
रुरोद विगतप्राणां दीप्यमानां सुतेजसा ।
रुरुः श्रुत्वा तदाक्रन्दं दर्शनार्थं समागतः ॥ ९॥
ददर्श पतितां तत्र सजीवामिव कामिनीम् ।
रुदन्तं स्थूलकेशं च दृष्ट्वान्यानृषिसत्तमान् ॥ १०॥
रुरुः स्थानाद्बहिर्गत्वा रुरोद विरहाकुलः ।
अहो दैवेन सर्पोऽयं प्रेषितः परमाद्भुतः ॥ ११॥
मम शर्मविघाताय दुःखहेतुरयं किल ।
किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा ॥ १२॥
न वै जीवितुमिच्छामि वियुक्तः प्रिययानया ।
नालिङ्गिता वरारोहा न मया चुम्बिता मुखे ॥ १३॥
न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा ।
लाजाहोमस्तथा चाग्नौ न कृतस्त्वनया सह ॥ १४॥
मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः ।
दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि ॥ १५॥
सुखं तर्हि कथं दिव्यमाप्यते भुवि वाञ्छितम् ।
प्रपतामि ह्रदे घोरे पावके प्रपताम्यहम् ॥ १६॥
विषमद्मि गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् ।
विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः ॥ १७॥
उपायं चिन्तयामास स्थितस्तस्मिन्नदीतटे ।
मरणात्किं फलं मे स्यादात्महत्या दुरत्यया ॥ १८॥
दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता ।
दैवस्तुष्टो भवेत्कामं दृष्ट्वा मां त्यक्तजीवितम् ॥ १९॥
सर्वः प्रमुदितश्च स्यान्मत्क्षये नात्र संशयः ।
उपकारः प्रियायाः कः परलोके भवेदपि ॥ २०॥
मृते मय्यात्मघातेन विरहात्पीडितेऽपि च ।
परलोके प्रिया सापि न मे स्यादात्मघातिनः ॥ २१॥
एतदर्थं मृते दोषा मयि नैवामृते पुनः ।
विमृश्यैव रुरुस्तत्र स्नात्वाचम्य शुचिः स्थितः ॥ २२॥
अब्रवीद्वचनं कृत्वा जलं पाणावसौ मुनिः ।
यन्मया सुकृतं किञ्चित्कृतं देवार्चनादिकम् ॥ २३॥
गुरवः पूजिता भक्त्या हुतं जप्तं तपः कृतम् ।
अधीतास्त्वखिला वेदा गायत्री संस्कृता यदि ॥ २४॥
रविराराधितस्तेन सञ्जीवतु मम प्रिया ।
यदि जीवेन्न मे कान्ता त्यजे प्राणानहं ततः ॥ २५॥
इत्युक्त्वा तज्जलं भूमौ चिक्षेपाराध्य देवताः ।
राजोवाच ।
एवं विलपतस्तस्य भार्यया दुःखितस्य च ॥ २६॥
देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं ततः ।
देवदूत उवाच ।
माकार्षीः साहसं ब्रह्मन्कथं जीवेन्मृता प्रिया ॥ २७॥
गतायुरेषा सुश्रोणी गन्धर्वाप्सरसोः सुता ।
अन्यां कामय चार्वङ्गीं मृतेयं चाविवाहिता ॥ २८॥
किं रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह ।
रुरुरुवाच ।
देवदूत न चान्यां वै वरिष्याम्यहमङ्गनाम् ॥ २९॥
यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया ।
राजोवाच ।
विदित्वेति हठं तस्य देवदूतो मुदान्वितः ॥ ३०॥