स्कन्ध 11, अध्याय 9: सशिरोव्रतं त्रिपुण्डधारणवर्णनम्, Verse 1
११.९ नवमोऽध्यायः ।
सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।
श्रीनारायण उवाच ।
इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः ।
तेषामेव परां विद्यां वदेदज्ञानबाधिकाम् ॥ १॥
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.९ नवमोऽध्यायः ।
सशिरोव्रतं त्रिपुण्डधारणवर्णनम् ।
श्रीनारायण उवाच ।
इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः ।
तेषामेव परां विद्यां वदेदज्ञानबाधिकाम् ॥ १॥
विधिवच्छ्रद्धया सार्धं न चीर्णं यैः शिरोव्रतम् ।
श्रौतस्मार्तसमाचारस्तेषामनुपकारकः ॥ २॥
शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः ।
देवता अभवन्विद्वन् खलु नान्येन हेतुना ॥ ३॥
शिरोव्रतस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम् ।
ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि ॥ ४॥
सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः ।
शिरोव्रतमिदं येन चरितं विधिवद्बुधैः ॥ ५॥
शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः ।
यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते ॥ ६॥
शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः ।
पठ्यन्ते मुनिशार्दूल शाखास्वेकव्रतं हि तत् ॥ ७॥
सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्घनम् ।
तथा तद्विषयं ज्ञानं तथैव च शिरोतव्रतम् ॥ ८॥
शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः ।
अपि सर्वासु विद्यासु सोऽधिकारी न संशयः ॥ ९॥
शिरोव्रतमिदं कार्यं पापकान्तारदाहकम् ।
साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत् ॥ १०॥
श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी ।
यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत् ॥ ११॥
अग्निरित्यादिभिर्मन्त्रैः षड्भिः शुद्धेन भस्मना ।
सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम् ॥ १२॥
एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम् ।
यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा ॥ १३॥
द्वादशाब्दमथाब्दं वा तदर्धं च तदर्धकम् ।
प्रकुर्याद्द्वादशाहं वा सङ्कल्पेन शिरोव्रतम् ॥ १४॥
शिरोव्रतेन यः स्नातस्तं तु नोपदिशेत्तु यः ।
तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु ॥ १५॥
ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु ।
यथा सर्वेश्वरः श्रीमान्मृदुः कारुणिकः खलु ॥ १६॥
जन्मान्तरसहस्रेषु नरा ये धर्मचारिणः ।
तेषामेव खलु श्रद्धा जायते न कदाचन ॥ १७॥
प्रत्युताज्ञानबाहुल्याद्द्वेष एव विजायते ।
अतः प्रद्वेषयुक्तस्य न भवेदात्मवेदनम् ॥ १८॥
ब्रह्मविद्योपदेशस्य साक्षादेवाधिकारिणः ।
त एव नेतरे विद्वन् ये तु स्नाताः शिरोव्रतैः ॥ १९॥
व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु ।
तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥ २०॥
यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् ।
तान्हत्वा न स पापीयान्भवेद्वेदान्तनिश्चयः ॥ २१॥
त्रिपुण्ड्रधारणं प्रोक्तं जाबालैरादरेण तु ।
त्रियम्बकेन मन्त्रेण सतारेण शिवेन च ॥ २२॥
त्रिपुण्ड्रं धारयेन्नित्यं गहस्थाश्रममाश्रितः ।
ओङ्कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् ॥ २३॥
धारयेद्भिक्षुको नित्यमिति जाबालिकी श्रुतिः ।
त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च ॥ २४॥
गृहस्थश्च वानप्रस्थो धारयेच्च त्रिपुण्ड्रकम् ।
मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने ॥ २५॥
भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् ।
ब्राह्मणो विधिनोत्पन्नस्त्रिपुण्ड्रभस्मनैव तु ॥ २६॥
ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुण्ठनम् ।
(महादेवस्य सम्बन्धात्तद्धर्मेऽप्यस्ति सङ्गतिः ।
) सम्यक् त्रिपुण्ड्रधर्मं च ब्राह्मणो नित्यमाचरेत् ॥ २७॥
आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् ।
यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारयेत्सदा ॥ २८॥
भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहगुण्ठनम् ।
रुद्रलिङ्गार्चनं वापि मोहतोऽपि च न त्यजेत् ॥ २९॥
त्रियम्बकेन मन्त्रेण सतारेण तथैव च ।
पञ्चाक्षरेण मन्त्रेण प्रणवेन तथैव च ॥ ३०॥