स्कन्ध 11, अध्याय 8: भूतशुद्धिवर्णनम्, Verse 1
११.८ अष्टमोऽध्यायः ।
भूतशुद्धिवर्णनम् ।
श्रीनारायण उवाच ।
भूतशुद्धिप्रकारं च कथयामि महामुने ।
मूलाधारात्समुत्थाय कुण्डलीं परदेवताम् ॥ १॥
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.८ अष्टमोऽध्यायः ।
भूतशुद्धिवर्णनम् ।
श्रीनारायण उवाच ।
भूतशुद्धिप्रकारं च कथयामि महामुने ।
मूलाधारात्समुत्थाय कुण्डलीं परदेवताम् ॥ १॥
सुषुम्णामार्गमाश्रित्य ब्रह्मरन्ध्रगतां स्मरेत् ।
जीवं ब्रह्मणि संयोज्य हंसमन्त्रेण साधकः ॥ २॥
पादादिजानुपर्यन्तं चतुष्कोणं सवज्रकम् ।
लं बीजाख्यं स्वर्णवर्णं स्मरेदवनिमण्डलम् ॥ ३॥
जान्वाद्यानाभिचन्द्रार्धनिभं पद्मद्वयाङ्कितम् ।
वं बीजयुक्तं श्वेताभमम्भसो मण्डलं स्मरेत् ॥ ४॥
नाभेर्हृदयपर्यन्तं त्रिकोणं स्वस्तिकान्वितम् ।
रं बीजेन युतं रक्तं स्मरेत्पावकमण्डलम् ॥ ५॥
हृदो भूमध्यपर्यन्तं वृत्तं षड्बिन्दुलाञ्छितम् ।
यं बीजयुक्तं धूम्राभं नभस्वन्मण्डलं स्मरेत् ॥ ६॥
आब्रह्मरन्ध्रं भ्रूमध्याद्वृत्तं स्वच्छं मनोहरम् ।
हं बीजयुक्तमाकाशमण्डलं च विचिन्तयेत् ॥ ७॥
एवं भूतानि सञ्चिन्त्य प्रत्येकं संविलापयेत् ।
भुवं जले जलं वह्नौ वह्निं वायौ नभस्यमुम् ॥ ८॥
विलाप्य खमहङ्कारे महत्तत्त्वेऽप्यहङ्कृतिम् ।
महान्तं प्रकृतौ मायामात्मनि प्रविलापयेत् ॥ ९॥
शुद्धसंविन्मयो भूत्वा चिन्तयेत्पापपूरुषम् ।
वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् ॥ १०॥
ब्रह्महत्याशिरोयुक्तं कनकस्तेयबाहुकम् ।
मदिरापानहृदयं गुरुतल्पकटीयुतम् ॥ ११॥
तत्संसर्गिपदद्वन्द्वमुपपातकमस्तकम् ।
खड्गचर्मधरं कृष्णमधोवक्त्रं सुदुःसहम् ॥ १२॥
वायुबीजं स्मरन्वायुं सम्पूर्यैनं विशोषयेत् ।
स्वशरीरयुतं मन्त्रो वह्निबीजेन निर्दहेत् ॥ १३॥
कुम्भके परिजप्तेन ततः पापनरोद्भवम् ।
बहिर्भस्म समुत्सार्य वायुबीजेन रेचयेत् ॥ १४॥
सुधाबीजेन देहोत्थं भस्म सम्प्लावयेत्सुधीः ।
भूबीजेन घनीकृत्य भस्म तत्कनकाण्डवत् ॥ १५॥
विशुद्धमुकुराकारं जपन्बीजं विहायसः ।
मूर्धादिपादपर्यन्तान्यङ्गानि रचयेत्सुधीः ॥ १६॥
आकाशादीनि भूतानि पुनरुत्पादयेच्चितः ।
सोऽहं मन्त्रेण चात्मानमानयेद्धृदयाम्बुजे ॥ १७॥
कुण्डलीजीवमादाय परसङ्गात्सुधामयम् ।
संस्थाप्य हृदयाम्भोजे मूलाधारगतां स्मरेत् ॥ १८॥
रक्ताम्भोधिस्थपोतोल्लसदरुण- सरोजाधिरूढा कराब्जैः शूलं कोदण्डमिक्षूद्भवमणिगुण- मप्यङ्कुशं पञ्चबाणान् ।
बिभ्राणासृक्कपालं त्रिनयन- लसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ १९॥
एवं ध्यात्वा प्राणशक्तिं परमात्मस्वरूपिणीम् ।
विभूतिधारणं कार्यं सर्वाधिकृतिसिद्धये ॥ २०॥
विभूतेर्विस्तरं वक्ष्ये धारणे च महाफलम् ।
श्रुतिस्मृतिप्रमाणोक्तं भस्मधारणमुत्तमम् ॥ २१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामेकादशस्कन्धे भूतशुद्धिवर्णनं नामाष्टमोऽध्यायः ॥ ११.८॥