स्कन्ध 11, अध्याय 7: रुद्राक्षमाहात्म्यवर्णनम्, Verse 1
११.७ सप्तमोऽध्यायः ।
रुद्राक्षमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
एवं नारद षड्वक्त्रो गिरिशेन विबोधितः ।
रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः ॥ १॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.७ सप्तमोऽध्यायः ।
रुद्राक्षमाहात्म्यवर्णनम् ।
श्रीनारायण उवाच ।
एवं नारद षड्वक्त्रो गिरिशेन विबोधितः ।
रुद्राक्षमहिमानं च ज्ञात्वासीत्स कृतार्थकः ॥ १॥
इत्थं भूतानुभावोऽयं रुद्राक्षो वर्णितो मया ।
सदाचारप्रसङ्गेन शृणु चान्यत्समाहितः ॥ २॥
यथा रुद्राक्षमहिमा वर्णितोऽनन्तपुण्यदः ।
लक्षणं मन्त्रविन्यासं तथाहं वर्णयामि ते ॥ ३॥
लक्षं तु दर्शनात्युण्यं कोटिस्तत्स्पर्शनाद्भवेत् ।
तस्य कोटिगुणं पुण्यं लभते धारणान्नरः ॥ ४॥
लक्षकोटिसहस्राणि लक्षकोटिशतानि च ।
तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ॥ ५॥
रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम् ।
धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ ६॥
बदरीफलमात्रं तु प्रोच्यते मध्यमं बुधैः ।
अधमं चणमात्रं स्यात्प्रतिज्ञैषा मयोदिता ॥ ७॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।
वृक्षा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥
श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।
पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्राः प्रकीर्तिताः ॥ ९॥
ब्राह्मणो बिभृयाच्छ्वेतान् रक्तान् राजा तु धारयेत् ।
पीतान्वैश्यस्तु बिभृयात्कृष्णान् शूद्रस्तु धारयेत् ॥ १०॥
समाः स्निग्धा दृढास्तद्वत्कण्टकैः संयुताः शुभाः ।
कृमिदष्टाञ्छिन्नभिन्नान्कण्टकैरहितांस्तथा ॥ ११॥
व्रणयुक्तानावृतांश्च षड्रुद्राक्षांस्तु वर्जयेत् ।
स्वयमेव कृतद्वारो रुद्राक्षः स्यादिहोत्तमः ॥ १२॥
यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।
समान्स्निग्धान्दृढान्वृत्तान्क्षौमसूत्रेण धारयेत् ॥ १३॥
सर्वगात्रेषु साम्येन समानातिविलक्षणा ।
निर्घर्षे हेमलेखाभा यत्र लेखा प्रदृश्यते ॥ १४॥
तदक्षमुत्तमं विद्यात्स धार्यः शिवपूजकैः ।
शिखायामेकरुद्राक्षं त्रिंशद्वै शिरसा वहेत् ॥ १५॥
षट्त्रिंशच्च गले धार्या बाह्वोः षोडश षोडश ।
मणिबन्धे द्वादशाक्षान्स्कन्धे पञ्चाशतं भवेत् ॥ १६॥
अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत् ।
द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः ॥ १७॥
कुण्डले मुकुटे चैव कर्णिकाहारकेषु च ।
केयूरे कटके चैव कुक्षिवंशे तथैव च ॥ १८॥
सुप्ते पीते सर्वकालं रुद्राक्षं धारयेन्नरः ।
त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ॥ १९॥
सहस्रमुत्तमं प्रोक्तं चैवं भेदेन धारयेत् ।
शिरसीशानमन्त्रेण कर्णे तत्पुरुषेण च ॥ २०॥
अघोरेण ललाटे तु तेनैव हृदयेऽपि च ।
अघोरबीजमन्त्रेण करयोर्धारयेत्पुनः ॥ २१॥
पञ्चाशदक्षग्रथितां वामदेवेन चोदरे ।
पञ्चब्रह्मभिरङ्गैश्चाप्येवं रुद्राक्षधारणम् ॥ २२॥
ग्रथितान्मूलमन्त्रेण सर्वानक्षांस्तु धारयेत् ।
एकवक्त्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः ॥ २३॥
परतत्त्वधारणाच्च जायते तत्प्रकाशनम् ।
द्विवक्त्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत् ॥ २४॥
धारणादर्धनारीशः प्रीयते तस्य नित्यशः ।
त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ॥ २५॥
त्रिमुखश्चैव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः ।
तद्धारणाच्च हुतभुक् तस्य तुष्यति नित्यशः ॥ २६॥
चतुर्मुखस्तु रुद्राक्षः पितामहस्वरूपकः ।
तद्धारणान्महाश्रीमान्महदारोग्यमुत्तमम् ॥ २७॥
महती ज्ञानसम्पत्तिः शुद्धये धारयेन्नरः ।
पञ्चमुखस्तु रुद्राक्षः पञ्चब्रह्मस्वरूपकः ॥ २८॥
तस्य धारणमात्रेण सन्तुष्यति महेश्वरः ।
षड्वक्त्रश्चैव रुद्राक्षः कार्तिकेयाधिदैवतः ॥ २९॥
विनायकं चापि देवं प्रवदन्ति मनीषिणः ।
सप्तवक्त्रस्तु रुद्राक्षः सप्तमात्राधिदैवतः ॥ ३०॥