स्कन्ध 11, अध्याय 6: रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम्, Verse 1
११.६ षष्ठोऽध्यायः ।
रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।
ईश्वर उवाच ।
महासेन कुशग्रन्थिपुत्राजीवादयः परे ।
रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम् ॥ १॥
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.६ षष्ठोऽध्यायः ।
रुद्राक्षमाहात्म्ये गुणनिधिमोक्षवर्णनम् ।
ईश्वर उवाच ।
महासेन कुशग्रन्थिपुत्राजीवादयः परे ।
रुद्राक्षस्य तु नैकोऽपि कलामर्हति षोडशीम् ॥ १॥
पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः ।
नदीनां तु यथा गङ्गा मुनीनां कश्यपो यथा ॥ २॥
उच्चैःश्रवा यथाश्वानां देवानामीश्वरो यथा ।
देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत् ॥ ३॥
नातः परतरं स्तोत्रं नातः परतरं व्रतम् ।
अक्षय्येषु च दानेषु रुद्राक्षस्तु विशिष्यते ॥ ४॥
शिवभक्ताय शान्ताय दद्याद्रुद्राक्षमुत्तमम् ।
तस्य पुण्यफलस्यान्तं न चाहं वक्तुमुत्सहे ॥ ५॥
धृतरुद्राक्षकण्ठाय यस्त्वन्नं सम्प्रयच्छति ।
त्रिसप्तकुलमुद्धृत्य रुद्रलोकं स गच्छति ॥ ६॥
यस्य भाले विभूतिर्न नाङ्गे रुद्राक्षधारणम् ।
न शम्भोर्भवने पूजा स विप्रः श्वपचाधमः ॥ ७॥
खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजानपि ।
पातकेभ्यो विमुच्येत रुद्राक्षं शिरसि स्थिते ॥ ८॥
सर्वयज्ञतपोदानवेदाभ्यासैश्च यत्फलम् ।
तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात् ॥ ९॥
वेदैश्चतुर्भिर्यत्पुण्यं पुराणपठनेन च ।
यत्तीर्थसेवनेनैव सर्वविद्यादिभिस्तथा ॥ १०॥
तत्पुण्यं लभते सद्यो रुद्राक्षस्य तु धारणात् ।
प्रयाणकाले रुद्राक्षं बन्धयित्वा म्रियेद्यदि ॥ ११॥
स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते ।
रुद्राक्षं धारयेत्कण्ठे बाह्वोर्वा म्रियते यदि ॥ १२॥
कुलैकविंशमुत्तार्य रुद्रलोके वसेन्नरः ।
ब्राह्मणो वापि चाण्डालो निर्गुणः सगुणोऽपि च ॥ १३॥
भस्मरुद्राक्षधारी यः स देवत्वं शिवं व्रजेत् ।
शुचिर्वाप्यशुचिर्वापि तथाभक्ष्यस्य भक्षकः ॥ १४॥
म्लेच्छो वाप्यथ चाण्डालो युतो वा सर्वपातकैः ।
रुद्राक्षधारणादेव स रुद्रो नात्र संशयः ॥ १५॥
शिरसा धारिते कोटिः कर्णयोर्दशकोटयः ।
शतकोटिर्गले बद्धो मूर्ध्नि कोटिसहस्रकम् ॥ १६॥
अयुतं चोपवीते तु लक्षकोटिर्भुजे स्थिते ।
मणिबन्धे तु रुद्राक्षो मोक्षसाधनकः परः ॥ १७॥
रुद्राक्षधारको भूत्वा यत्किञ्चित्कर्म वैदिकम् ।
कुर्वन्विप्रः सदा भक्त्या महदाप्नोति तत्फलम् ॥ १८॥
रुद्राक्षमालिकां कण्ठे धारयेद्भक्तिवर्जितः ।
पापकर्मा तु यो नित्यं स मुक्तः सर्वबन्धनात् ॥ १९॥
रुद्राक्षार्पितचेता यो रुद्राक्षस्तु न वै धृतः ।
असौ माहेश्वरो लोके नमस्यः स तु लिङ्गवत् ॥ २०॥
अविद्यो वा सविद्यो वा रुद्राक्षस्य तु धारणात् ।
शिवलोकं प्रपद्येत कीकटे गर्दभो यथा ॥ २१॥
स्कन्द उवाच ।
रुद्राक्षान्सन्दधे देव गर्दभः केन हेतुना ।
कीकटे केन वा दत्तस्तद्ब्रूहि परमेश्वर ॥ २२॥
श्रीभगवानुवाच ।
शृणु पुत्र पुरावृत्तं गर्दभो विन्ध्यपर्वते ।
धत्ते रुद्राक्षभारं तु वाहितः पथिकेन तु ॥ २३॥
श्रान्तोऽसमर्थस्तद्भारं वोढुं पतितवान्भुवि ।
प्राणैस्त्वक्तस्त्रिनेत्रस्तु शूलपाणिर्महेश्वरः ॥ २४॥
मत्प्रसादान्महासेन मदन्तिकमुपागतः ।
यावद्वक्त्रस्य सङ्ख्यानं रुद्राक्षाणां सुदुर्लभम् ॥ २५॥
तावद्युगसहस्राणि शिवलोके महीयते ।
स्वशिष्येभ्यस्तु वक्तव्यं नाशिष्येभ्यः कदाचन ॥ २६॥
अभक्तेभ्योऽपि मूर्खेभ्यः कदाचिन्न प्रकाशयेत् ।
अभक्तो वास्तु भक्तो वा नीचो नीचतरोऽपि वा ॥ २७॥
रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः ।
रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥ २८॥
महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः ।
सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥ २९॥
तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः ।
अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥ ३०॥