Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 1

११.४ चतुर्थोऽध्यायः ।

रुद्राक्षमाहात्म्यवर्णनम् ।

नारद उवाच ।

एवम्भूतानुभावोऽयं रुद्राक्षो भवतानघ ।

वर्णितो महतां पूज्यः कारणं तत्र किं वद ॥ १॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 2

श्रीनारायण उवाच ।

एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः ।

षण्मुखेन च रुद्रस्तं यदुवाच श‍ृणुष्व तत् ॥ २॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 3

ईश्वर उवाच ।

श‍ृणु षण्मुख तत्त्वेन कथयामि समासतः ।

त्रिपुरो नाम दैत्यस्तु पुराऽऽसीत्सर्वदुर्जयः ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 4

जितास्तेन सुराः सर्वे बह्मविष्ण्वादिदेवताः ।

सर्वैस्तु कथिते तस्मिंस्तदाहं त्रिपुरं प्रति ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 5

अचिन्तयं महाशस्त्रमघोराख्यं मनोहरम् ।

सर्वदेवमयं दिव्यं ज्वलन्तं घोररूपि यत् ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 6

त्रिपुरस्य वधार्थाय देवानां तारणाय च ।

सर्वविघ्नोपशमनमघोरास्त्रमचिन्तयम् ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 7

दिव्यवर्षसहस्रं तु चक्षुरुन्मीलितं मया ।

पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिन्दवः ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 8

तत्राश्रुबिन्दुतो जाता महारुद्राक्षवृक्षकाः ।

ममाज्ञया महासेन सर्वेषां हितकाम्यया ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 9

बभूवुस्ते च रुद्राक्षा अष्टत्रिंशत्प्रभेदतः ।

सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 10

सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः क्रमात् ।

वह्निनेत्रोद्भवाः कृष्णा दश भेदा भवन्ति हि ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 11

श्वेतवर्णश्च रुद्राक्षो जातितो ब्राह्म उच्यते ।

क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 12

एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति ।

द्विवक्त्रो देवदेव्यो स्याद्विविधं नाशयेदघम् ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 13

त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ।

चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 14

पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।

अभक्ष्यभक्षणोद्भूतैरगम्यागमनोद्भवैः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 15

मुच्यते सर्वपापैस्तु पञ्चवक्त्रस्य धारणात् ।

षड्वक्त्रः कार्तिकेयस्तु स धार्यो दक्षिणे करे ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 16

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।

सप्तवक्त्रो महाभागो ह्यनङ्गो नाम नामतः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 17

तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः ।

अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 18

अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च ।

दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम् ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 19

एवमादीनि पापानि हन्ति सर्वाणि धारणात् ।

विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम् ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 20

भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् ।

नववक्त्रो भैरवस्तु धारयेद्वामबाहुके ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 21

भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् ।

भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 22

सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् ।

दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 23

ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः ।

पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 24

वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् ।

शिखायां धारयेद्यो वै तस्य पुण्यफलं श‍ृणु ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 25

अश्वमेधसहस्रस्य वाजपेयशतस्य च ।

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 26

तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् ।

द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 27

आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः ।

गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात् ॥ २७॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 28

श‍ृङ्गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि ।

न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः ॥ २८॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 29

न च किञ्चिद्भयं तस्य न च व्याधिः प्रवर्तते ।

न कुतश्चिद्भयं तस्य सुखी चैवेश्वरो भवेत् ॥ २९॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 4: रुद्राक्षमाहात्म्यवर्णनम्, Verse 30

हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् ।

खरांश्च श्वश‍ृगालांश्च हत्वा बहुविधानपि ॥ ३०॥