Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 1

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ११.३ तृतीयोऽध्यायः ।

रुद्राक्षमाहात्म्यवर्णनम् ।

श्रीनारायण उवाच ।

(शुद्धं स्मार्तं चाचमनं पौराणं वैदिकं तथा ।

तान्त्रिकं श्रौतमित्याहुः षड्विधं श्रुतिचोदितम् ॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 2

विण्मूत्रादिकशौचं च शुद्धं च परिकीर्तितम् ।

स्मार्तं पौराणिकं कर्म आचान्ते विधिपूर्वकम् ॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 3

वैदिकं श्रौत्रमित्यादि ब्रह्मयज्ञादिपूर्वकम् ।

अस्त्रविद्यादिकं कर्म तान्त्रिको विधिरुच्यते ॥

)

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 4

स्मृत्वा चोङ्कारगायत्रीं निबध्नीयाच्छिखां तथा ।

पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत् ॥ १॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 5

क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते ।

पतितानां च सम्भाषे दक्षिणं श्रवणं स्पृशेत् ॥ २॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 6

अग्निरापश्च वेदाश्च सोमः सूर्योऽनिलस्तथा ।

सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥ ३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 7

ततस्तु गत्वा नद्यादौ प्रातःस्नानं विशोधनम् ।

समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे ॥ ४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 8

अत्यन्तमलिनो देहो नवद्वारैर्मलं वहन् ।

सदाऽऽस्ते तच्छोधनाय प्रातःस्नानं विधीयते ॥ ५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 9

अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात् ।

रहस्याचरितं पापं मुच्यते स्नानकर्मणा ॥ ६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 10

अस्नातस्य क्रियाः सर्वा भवन्ति विफला यतः ।

तस्मात्प्रातश्चरेत्स्नानं नित्यमेव दिने दिने ॥ ७॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 11

दर्भयुक्तश्चरेत्स्नानं तथा सन्ध्याभिवन्दनम् ।

सप्ताहं प्रातरस्नायी सन्ध्याहीनस्त्रिभिर्दिनैः ॥ ८॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 12

द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात् ।

अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः ॥ ९॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 13

प्रातर्न तु तथा स्नायाद्धोमकाले विगर्हितः ।

गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥ १०॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 14

गायन्तं त्रायते यस्माद्गायत्रीत्यभिधीयते ।

प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम् ॥ ११॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 15

वायुं वायौ जयेद्विप्रः प्राणसंयमनत्रयात् ।

ब्राह्मणः श्रुतिसम्पन्नः स्वधर्मनिरतः सदा ॥ १२॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 16

स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन ।

गौश‍ृङ्गे सर्षपो यावत् तावद्येषां न स स्थिरः ॥ १३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 17

न तारयन्त्युभौ पक्षौ पितॄनेकोत्तरं शतम् ।

सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः ॥ १४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 18

स्नानाङ्गतर्पणं कृत्वा देवर्षिपितृतोषकम् ।

शुद्धे वस्त्रे परीधाय जलाद्बहिरुपागतः ॥ १५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 19

विभूतिधारणं कार्यं रुद्राक्षाणां च धारणम् ।

क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः ॥ १६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 20

रुद्राक्षान्कण्ठदेशे दशनपरिमिता- न्मस्तके विंशती द्वे षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशैव ।

बाह्वोरिन्दोः कलाभिर्नयनयुगकृते त्वेकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकण्ठः ॥ १७॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 21

बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने ।

शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः ॥ १८॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 22

यज्ञोपवीते हस्ते वा कण्ठे तुन्देऽथवा नरः ।

श्रीमत्पञ्चाक्षरेणैव प्रणवेन तथापि वा ॥ १९॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 23

निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा ।

रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम् ॥ २०॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 24

रुद्राक्षं यच्छिखायां तत्तारतत्त्वमिति स्मरेत् ।

कर्णयोरुभयोर्ब्रह्मन् देवं देवीं च भावयेत् ॥ २१॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 25

यज्ञोपवीते वेदांश्च तथा हस्ते दिशः स्मरेत् ।

कण्ठे सरस्वतीं देवीं पावकं चापि भावयेत् ॥ २२॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 26

सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम् ।

कर्तव्यं मन्त्रतः प्रोक्तं द्विजानां नान्यवर्णिनाम् ॥ २३॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 27

रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः ।

पश्यन्नपि निषिद्धांश्च तथा श‍ृण्वन्नपि स्मरन् ॥ २४॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 28

जिघ्रन्नपि तथा चाश्नन् प्रलपन्नपि सन्ततम् ।

कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः ॥ २५॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 29

रुद्राक्षधारणादेव सर्वपापैर्न लिप्यते ।

अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत् ॥ २६॥

Devi Bhagavata Purana

स्कन्ध 11, अध्याय 3: रुद्राक्षमाहात्म्यवर्णनम्, Verse 30

पीतं रुद्रेण तत्पीतं घ्रातं घ्रातं शिवेन तत् ।

रुद्राक्षधारणे लज्जा येषामस्ति महामुने ॥ २७॥