स्कन्ध 11, अध्याय 2: शौचविधिवर्णनम्, Verse 1
११.२ द्वितीयोऽध्यायः ।
शौचविधिवर्णनम् ।
श्रीनारायण उवाच ।
आचारहीनं न पुनन्ति वेदा यदप्यधीताः सह षड्भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ १॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
११.२ द्वितीयोऽध्यायः ।
शौचविधिवर्णनम् ।
श्रीनारायण उवाच ।
आचारहीनं न पुनन्ति वेदा यदप्यधीताः सह षड्भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ १॥
ब्राह्मे मुहूर्त्ते चोत्थाय तत्सर्वं सम्यगाचरेत् ।
रात्रेरन्तिमयामे तु वेदाभ्यासं चरेद् बुधः ॥ २॥
किञ्चित्कालं ततः कुर्यादिष्टदेवानुचिन्तनम् ।
योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचरेत् ॥ ३॥
जीवब्रह्मैक्यता येन जायते तु निरन्तरम् ।
जीवन्मुक्तश्च भवति तत्क्षणादेव नारद ॥ ४॥
पञ्चपञ्च उषःकालः सप्तपञ्चारुणोदयः ।
अष्टपञ्चभवेत्प्रातः शेषः सूर्योदयः स्मृतः ॥ ५॥
प्रातरुत्थाय यः कुर्याद्विण्मूत्रं द्विजसत्तमः ।
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ ६॥
विण्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः ।
निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः ॥ ७॥
कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रं तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी ॥ ८॥
अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा ।
वाचं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः ॥ ९॥
न फालकृष्टे न जले न चितायां न पर्वते ।
जीर्णदेवालये कुर्यान्न वल्मीके न शाद्वले ॥ १०॥
न ससत्त्वेषु गर्तेषु न गच्छन्न पथि स्थितः ।
सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने ॥ ११॥
पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ।
उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ ॥ १२॥
यागे दाने ब्रह्मयज्ञे द्विजो मौनं समाचरेत् ।
देवता ऋषयः सर्वे पिशाचोरगराक्षसाः ॥ १३॥
इतो गच्छन्तु भूतानि बहिर्भूमिं करोम्यहम् ।
इति सम्प्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि ॥ १४॥
वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथैव गाः ।
न कदाचन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ १५॥
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः ।
तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः ॥ १६॥
गृहीतलिङ्ग उत्थाय स गच्छेद्वारिसन्निधौ ।
पात्रे जलं गहीत्वा तु गच्छेदन्यत्र चैव हि ॥ १७॥
गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः ।
रक्तां पीतां तथा कृष्णां गृह्णीयुश्चान्यवर्णकाः ॥ १८॥
अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः ।
अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषकोत्करात् ॥ १९॥
कृतशौचावशिष्टाच्च न ग्राह्याः पञ्चमृत्तिकाः ।
मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम् ॥ २०॥
एका लिङ्गे करे तिस्र उभयोर्मृद्द्वयं स्मृतम् ।
मूत्रशौचं समाख्यातं शौचे तद् द्विगुणं स्मृतम् ॥ २१॥
विट्शौचे लिङ्गदेशे तु प्रदद्यान्मृत्तिकाद्वयम् ।
पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥ २२॥
वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च ।
प्रत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुधीः ॥ २३॥
एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः ।
त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम् ॥ २४॥
आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि ।
प्रत्येकं तु सदा ग्राह्या नातो न्यूना कदाचन ॥ २५॥
एतद्दिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् ।
आतुरस्य तदर्धं तु मार्गस्थस्य तदर्धकम् ॥ २६॥
स्त्रीशूद्राणामशक्तानां बालानां शौचकर्मणि ।
यथा गन्धक्षयः स्यात्तु तथा कुर्यादसङ्ख्यकम् ॥ २७॥
गन्धलेपक्षयो यावत्तावच्छौचं विधीयते ।
सर्वेषामेव वर्णानामित्याह भगवान्मनुः ॥ २८॥
वामहस्तेन शौचं तु कुर्याद्वै दक्षिणेन न ।
नाभेरधो वामहस्तो नाभेरूर्ध्वं तु दक्षिणः ॥ २९॥
शौचकर्मणि विज्ञेयो नान्यथा द्विजपुङ्गवैः ।
जलपात्रं न गृह्णीयाद्विण्मूत्रोत्सर्जने बुधः ॥ ३०॥