स्कन्ध 11, अध्याय 1: मनुकृतं देवीस्तवनम्, Verse 1
११ श्रीमद्देवीभागवतमहापुराणे एकादशः स्कन्धः ११.१ प्रथमोऽध्यायः ।
मनुकृतं देवीस्तवनम् ।
नारद उवाच ।
भगवन् भूतभव्येश नारायण सनातन ।
आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम् ॥ १॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
११ श्रीमद्देवीभागवतमहापुराणे एकादशः स्कन्धः ११.१ प्रथमोऽध्यायः ।
मनुकृतं देवीस्तवनम् ।
नारद उवाच ।
भगवन् भूतभव्येश नारायण सनातन ।
आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम् ॥ १॥
प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम् ।
अधिकाराप्तिरुक्तात्र देवीपूर्णकृपावशात् ॥ २॥
अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा ।
स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो ॥ ३॥
श्रीनारायण उवाच ।
शृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम् ।
यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा ॥ ४॥
प्रातरुत्थाय कर्तव्यं यद् द्विजेन दिने दिने ।
तदहं सम्प्रवक्ष्यामि द्विजानामुपकारकम् ॥ ५॥
उदयास्तमयं यावद् द्विजः सत्कर्मकृद्भवेत् ।
नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ॥ ६॥
आत्मनश्च सहायार्थं पिता माता न तिष्ठति ।
न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ॥ ७॥
तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनु साधनैः ।
धर्मेणैव सहायात्तु तमस्तरति दुस्तरम् ॥ ८॥
आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥ ९॥
आचाराल्लभते चायुराचाराल्लभते प्रजाः ।
आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥ १०॥
आचारः परमो धर्मो नृणां कल्याणकारकः ।
इह लोके सुखी भूत्वा परत्र लभते सुखम् ॥ ११॥
अज्ञानान्धजनानां तु मोहितैर्भ्रामितात्मनाम् ।
धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः ॥ १२॥
आचारात्प्राप्यते श्रैष्ठ्यमाचारात्कर्म लभ्यते ।
कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम् ॥ १३॥
सर्वधर्मवरिष्ठोऽयमाचारः परमं तपः ।
तदेव ज्ञानमुद्दिष्टं तेन सर्वं प्रसाध्यते ॥ १४॥
यस्त्वाचारविहीनोऽत्र वर्तते द्विजसत्तमः ।
स शूद्रवद् बहिष्कार्यो यथा शूद्रस्तथैव सः ॥ १५॥
आचारो द्विविधः प्रोक्तः शास्त्रीयो लौकिकस्तथा ।
उभावपि प्रकर्तव्यौ न त्याज्यौ शुभमिच्छता ॥ १६॥
ग्रामधर्मा जातिधर्मा देशधर्माः कुलोद्भवाः ।
परिग्राह्या नृभिः सर्वैर्नैव ताँल्लङ्घयेन्मुने ॥ १७॥
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधिना व्याप्त एव च ॥ १८॥
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥ १९॥
नारद उवाच ।
बहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने ।
कियत्प्रमाणं तद् ब्रूहि धर्ममार्गविनिर्णये ॥ २०॥
श्रीनारायण उवाच ।
श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम् ।
एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित् ॥ २१॥
विरोधो यत्र तु भवेत्त्रयाणां च परस्परम् ।
श्रुतिस्तत्र प्रमाणं स्याद् द्वयोर्द्वैधे स्मृतिर्वरा ॥ २२॥
श्रुतिद्वैधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ ।
स्मृतिद्वैधं तु यत्र स्याद्विषयः कल्प्यतां पृथक् ॥ २३॥
पुराणेषु क्वचिच्चैव तन्त्रदृष्टं यथातथम् ।
धर्मं वदन्ति तं धर्मं गृह्णीयान्न कथञ्चन ॥ २४॥
वेदाविरोधि चेत्तन्त्रं तत्प्रमाणं न संशयः ।
प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च ॥ २५॥
सर्वथा वेद एवासौ धर्ममार्गप्रमाणकः ।
तेनाविरुद्धं यत्किञ्चित्तत्प्रमाणं न चान्यथा ॥ २६॥
यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः ।
कुण्डानि तस्य शिक्षार्थं यमलोके वसन्ति हि ॥ २७॥
तस्मात्सर्वप्रयत्नेन वेदोक्तं धर्ममाश्रयेत् ।
स्मृतिः पुराणमन्यद्वा तन्त्रं वा शास्त्रमेव च ॥ २८॥
तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन ।
ये कुशास्त्राभियोगेन वर्तयन्तीह मानवान् ॥ २९॥
अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् ।
कामाचाराः पाशुपतास्तथा वै लिङ्गधारिणः ॥ ३०॥