स्कन्ध 10, अध्याय 13: भ्रामरीचरित्रवर्णनम्, Verse 1
१०.१३ त्रयोदशोऽध्यायः ।
भ्रामरीचरित्रवर्णनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां शेषमनूनां चित्रमुद्भवम् ।
यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते ॥ १॥
Containing 129 sacred Sanskrit shlokas with multi-author commentaries and translations.
१०.१३ त्रयोदशोऽध्यायः ।
भ्रामरीचरित्रवर्णनम् ।
श्रीनारायण उवाच ।
अथातः श्रूयतां शेषमनूनां चित्रमुद्भवम् ।
यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते ॥ १॥
आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः ।
करूषश्च पृषध्रश्च नाभागो दिष्ट एव च ॥ २॥
शर्यातिश्च त्रिशङ्कुश्च सर्व एव महाबलाः ।
ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम् ॥ ३॥
निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः ।
देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक् ॥ ४॥
विविधैरुपचारैस्तां पूजयामासुरादृताः ।
ततश्च सर्व एवैते तपःसारा महाबलाः ॥ ५॥
जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः ।
धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः ॥ ६॥
ततस्तेषामादरेणाराधनं कुर्वतां सदा ।
विमला मतिरुत्पन्ना सर्वमोहविनाशिनी ॥ ७॥
बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः ।
मत्या विमलया तेषामात्मन्येवाखिलं जगत् ॥ ८॥
दर्शनं सञ्जगामाशु तदद्भुतमिवाभवत् ।
एवं द्वादशवर्षान्ते तपसा जगदीश्वरी ॥ ९॥
प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः ।
तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते ॥ १०॥
तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः ।
राजपुत्रा ऊचुः ।
महेश्वरि जयेशानि परमे करुणालये ॥ ११॥
वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते ।
क्लीङ्कारविग्रहे देवि क्लीङ्कारप्रीतिदायिनि ॥ १२॥
कामराजमनोमोददायिनीश्वरतोषिणि ।
महामाये मोदपरे महासाम्राज्यदायिनि ॥ १३॥
विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि ।
एवं स्तुता भगवती राजपुत्रैर्महात्मभिः ॥ १४॥
प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् ।
देव्युवाच ।
राजपुत्रा महात्मानो भवन्तस्तपसा युताः ॥ १५॥
निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् ।
वरं मनोगतं सर्वं याचध्वमविलम्बितम् ॥ १६॥
प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् ।
राजपुत्रा ऊचुः ।
देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी ॥ १७॥
भोगा अव्याहता कामं यशस्तेजो मतिश्च ह ।
अकुण्ठितत्वं सर्वेषामेष एव वरो हितः ॥ १८॥
देव्युवाच ।
एवमस्तु च सर्वेषां भवतां यन्मनोगतम् ।
अथान्यदपि मे वाक्यं भूयतामादरादिदम् ॥ १९॥
भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः ।
सन्तत्या दीर्घया भोगैरनेकैरपि सङ्गमः ॥ २०॥
अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः ।
भवितारो मत्प्रसादाद्राजपुत्राः क्रमेण तु ॥ २१॥
श्रीनारायण उवाच ।
एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका ।
अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती ॥ २२॥
ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् ।
राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः ॥ २३॥
सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले ।
वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन् ॥ २४॥
भवान्तरे क्रमेणैव सावर्णिपदभागिनः ।
प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः ॥ २५॥
अव्याहतबलो देव्याः प्रसादादभवद्विभुः ।
द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च ॥ २६॥
बभूव मन्वन्तरपो महादेवीप्रसादतः ।
तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः ॥ २७॥
एकादशो महोत्साहस्तपसा स्वेन भावितः ।
चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः ॥ २८॥
देवीसमाराधनेन जातो मन्वन्तरेश्वरः ।
पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः ॥ २९॥
महाबलो महासत्त्वो बभूव जगदीश्वरः ।
षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती ॥ ३०॥