स्कन्ध 2, अध्याय 8: रुरुचरित्रवर्णनम्, Verse 1
२.८ अष्टमोऽध्यायः ।
रुरुचरित्रवर्णनम् ।
सूत उवाच ।
ततो दिने तृतीये च धृतराष्ट्रः स भूपतिः ।
दावाग्निना वने दग्धः सभार्यः कुन्तिसंयुतः ॥ १॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
२.८ अष्टमोऽध्यायः ।
रुरुचरित्रवर्णनम् ।
सूत उवाच ।
ततो दिने तृतीये च धृतराष्ट्रः स भूपतिः ।
दावाग्निना वने दग्धः सभार्यः कुन्तिसंयुतः ॥ १॥
सञ्जयस्तीर्थयात्रायां गतस्त्यक्त्वा महीपतिम् ।
श्रुत्वा युधिष्ठिरो राजा नारदाद्दुःखमाप्तवान् ॥ २॥
षट्त्रिंशेऽथ गते वर्षे कौरवाणां क्षयात्पुनः ।
प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ ३॥
ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं परस्परम् ।
क्षयं प्राप्ता महात्मानः पश्यतो रामकृष्णयोः ॥ ४॥
देहं तत्याज रामस्तु कृष्णः कमललोचनः ।
व्याधबाणहतः शापं पालयन्भगवान्हरिः ॥ ५॥
वसुदेवस्तु तच्छ्रुत्वा देहत्यागं हरेरथ ।
जहौ प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम् ॥ ६॥
अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः ।
संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह ॥ ७॥
समीक्ष्याथ हरेर्देहं कृत्वा काष्ठस्य सञ्चयम् ।
अष्टाभिः सह पत्नीभिर्दाहयामास पार्थिवः ॥ ८॥
देहं रामस्य रेवत्या सह दग्ध्वा विभावसौ ।
अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम् ॥ ९॥
पुरी सा वासुदेवस्य प्लावितोदधिना ततः ।
अर्जुनः सर्वलोकान्वै गृहीत्वा निर्गतस्तदा ॥ १०॥
कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिता ।
धनं सर्वं गृहीतं च निस्तेजश्चार्जुनोऽभवत् ॥ ११॥
इन्द्रप्रस्थे समागत्य वज्रो राजा कृतस्तदा ।
अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा ॥ १२॥
व्यासाय कथितं दुःखं तेनोक्तोऽसौ महारथः ।
पुनर्यदा हरिस्त्वञ्च भवितासि महामते ॥ १३॥
तदा तेजस्तवात्युग्रं भविष्यति पुनर्युगे ।
तच्छ्रुत्वा वचनं पार्थो गत्वा नागपुरेऽर्जुनः ॥ १४॥
दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत् ।
देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा ॥ १५॥
गमनाय मतिं चक्रे राजा हैमाचलं प्रति ।
षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम् ॥ १६॥
निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह ।
षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये ॥ १७॥
गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः ।
परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः ॥ १८॥
अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतन्द्रितः ।
बभूव मृगयाशीलो जगाम च वनं महत् ॥ १९॥
विद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् ।
तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः ॥ २०॥
राजा घर्मेण सन्तप्तो ददर्श मुनिमन्तिके ।
ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः ॥ २१॥
नोवाच किञ्चिन्मौनस्थश्चुकोप नृपतिस्तदा ।
मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः ॥ २२॥
कलिनाविष्टचित्तस्तु कण्ठे तस्य न्यवेशयत् ।
आरोपिते तथा सर्पे नोवाच मुनिसत्तमः ॥ २३॥
न चचाल समाधिस्थो राजापि स्वगृहं गतः ।
तस्य पुत्रोऽतितेजस्वी गविजातो महातपाः ॥ २४॥
महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके ।
मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना ॥ २५॥
लम्भितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर ।
तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा ॥ २६॥
शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् ।
पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः ॥ २७॥
तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम् ।
मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम् ॥ २८॥
शापं निवेदयामास मुनिपुत्रेण चार्पितम् ।
अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै ॥ २९॥
अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच ह ।
शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम् ॥ ३०॥