स्कन्ध 10, अध्याय 12: देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम्, Verse 1
१०.१२ द्वादशोऽध्यायः ।
देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।
मुनिरुवाच ।
महिषीगर्भसम्भूतो महाबलपराक्रमः ।
देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥
१
Containing 94 sacred Sanskrit shlokas with multi-author commentaries and translations.
१०.१२ द्वादशोऽध्यायः ।
देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् ।
मुनिरुवाच ।
महिषीगर्भसम्भूतो महाबलपराक्रमः ।
देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥
१
सर्वेषां लोकपालानामधिकारान्महासुरः ।
बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्भुतम् ॥ २॥
ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः ।
ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम् ॥ ३॥
यत्रोत्तमौ देवदेवौ संस्थितौ शङ्कराच्युतौ ।
वृत्तान्तं कथयामासुर्महिषस्य दुरात्मनः ॥ ४॥
देवानां चैव सर्वेषां स्थानानि तरसासुरः ।
विनिर्जित्य स्वयं भुङ्क्ते बलवीर्यमदोद्धतः ॥ ५॥
महिषासुरनामासौ दुष्टदैत्योऽमरेश्वरौ ।
वधोपायश्च तस्याशु चिन्त्यतामसुरार्दनौ ॥ ६॥
एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः ।
चकार कोपं सुबहुं तथा शङ्करपद्मजौ ॥ ७॥
एवं कोपयुतस्यास्य हरेरास्यान्महीपते ।
तेजः प्रादुरभूद्दिव्यं सहस्रार्कसमद्युति ॥ ८॥
अथानुक्रमतस्तेजः सर्वेषां त्रिदिवौकसाम् ।
शरीरादुद्भवं प्राप हर्षयद्विबुधाधिपान् ॥ ९॥
यदभूच्छम्भुजं तेजो मुखमस्योदपद्यत ।
केशा बभूवुर्याम्येन वैष्णवेन च बाहवः ॥ १०॥
सौम्येन च स्तनौ जातौ माहेन्द्रेण च मध्यमः ।
वारुणेन ततो भूप जङ्घोरू सम्बभूवतुः ॥ ११॥
नितम्बौ तेजसा भूमेः पादौ ब्राह्मेण तेजसा ।
पादाङ्गुल्यो भानवेन वासवेन कराङ्गुली ॥ १२॥
कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा ।
प्राजापत्येनोत्तमेन तेजसा वसुधाधिप ॥ १३॥
पावकेन च सञ्जातं लोचनत्रितयं शुभम् ।
सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी ॥ १४॥
कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप ।
सर्वेषां तेजसा देवी जाता महिषमर्दिनी ॥ १५॥
शूलं ददौ शिवो विष्णुश्चक्रं शङ्खं च पाशभृत् ।
हुताशनो ददौ शक्तिं मारुतश्चापसायकौ ॥ १६॥
वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद् गजात् ।
कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू ॥ १७॥
दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ ।
कालः खड्गं तथा चर्म निर्मलं वसुधाधिप ॥ १८॥
समुद्रो निर्मलं हारमजरे चाम्बरे नृप ।
चूडामणिं कुण्डले च कटकानि तथाङ्गदे ॥ १९॥
अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ ।
ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः ॥ २०॥
विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते ।
हिमवान्वाहनं सिंहं रत्नानि विविधानि च ॥ २१॥
पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः ।
शेषश्च भगवान्देवो नागहारं ददौ विभुः ॥ २२॥
अन्यैरशेषविबुधैर्मानिता सा जगन्मयी ।
तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः ॥ २३॥
नानास्तोत्रैर्महेशानीं जगदुद्भवकारिणीम् ।
तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता ॥ २४॥
महिषस्य वधार्थाय महानादं चकार ह ।
तेन नादेन महिषश्चकितोऽभूद्धरापते ॥ २५॥
आससाद जगद्धात्रीं सर्वसैन्यसमावृतः ।
ततः स युयुधे देव्या महिषाख्यो महासुरः ॥ २६॥
शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् ।
चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ ॥ २७॥
बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः ।
एतैश्चान्यैरसङ्ख्यातैः सङ्ग्रामान्तकसन्निभैः ॥ २८॥
योधैः परिवृतो वीरो महिषो दानवोत्तमः ।
ततः सा कोपताम्राक्षी देवी लोकविमोहिनी ॥ २९॥
जघान योधान्समरे देवी महिषमाश्रितान् ।
ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः ॥ ३०॥