स्कन्ध 10, अध्याय 11: देवीमाहात्म्ये मधुकैटभवधवर्णनम्, Verse 1
१०.११ एकादशोऽध्यायः ।
देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।
राजोवाच ।
का सा देवी त्वया प्रोक्ता ब्रूहि कालविदां वर ।
का मोहयति सत्त्वानि कारणं किं भवेद् द्विज ॥ १॥
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
१०.११ एकादशोऽध्यायः ।
देवीमाहात्म्ये मधुकैटभवधवर्णनम् ।
राजोवाच ।
का सा देवी त्वया प्रोक्ता ब्रूहि कालविदां वर ।
का मोहयति सत्त्वानि कारणं किं भवेद् द्विज ॥ १॥
कस्मादुत्पद्यते देवी किंरूपा सा किमात्मिका ।
सर्वमाख्याहि भूदेव कृपया मम सर्वतः ॥ २॥
मुनिरुवाच ।
राजन् देव्याः स्वरूपं ते वर्णयामि निशामय ।
यथा चोत्पतिता देवी येन वा सा जगन्मयी ॥ ३॥
यदा नारायणो देवो विश्वं संहृत्य योगराट् ।
आस्तीर्य शेषं भगवान् समुद्रे निद्रितोऽभवत् ॥ ४॥
तदा प्रस्वापवशगो देवदेवो जनार्दनः ।
तत्कर्णमलसञ्जातौ दानवौ मधुकैटभौ ॥ ५॥
ब्रह्माणं हन्तुमुद्युक्तौ दानवौ घोररूपिणौ ।
तदा कमलजो देवो दृष्ट्वा तौ मधुकैटभौ ॥ ६॥
निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम् ।
निद्रितो भगवानीशो दानवौ च दुरासदौ ॥ ७॥
किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम् ।
एवं चिन्तयतस्तस्य पद्ययोनेर्महात्मनः ॥ ८॥
बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी ।
यस्या वशं गतो देवो निद्रितो भगवान् हरिः ॥ ९॥
तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् ।
ब्रह्मोवाच ।
देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे ॥ १०॥
जगन्माये महामाये समुद्रशयने शिवे ।
त्वदाज्ञावशगाः सर्वे स्वस्वकार्यविधायिनः ॥ ११॥
कालरात्रिर्महारात्रिर्मोहरात्रिर्मदोत्कटा ।
व्यापिनी वशगा मान्या महानन्दैकशेवधिः ॥ १२॥
महनीया महाराध्या माया मधुमती मही ।
परापराणां सर्वेषां परमा त्वं प्रकीर्तिता ॥ १३॥
लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारुण्यविग्रहा ।
कमनीया जगद्वन्द्या जाग्रदादिस्वरूपिणी ॥ १४॥
परमा परमेशानी परानन्दपरायणा ।
एकाप्येकस्वरूपा च सद्वितीया द्वयात्मिका ॥ १५॥
त्रयी त्रिवर्गनिलया तुर्या तुर्यपदात्मिका ।
पञ्चमी पञ्चभूतेशी षष्ठी षष्ठेश्वरीति च ॥ १६॥
सप्तमी सप्तवारेशी सप्तसप्तवरप्रदा ।
अष्टमी वसुनाथा च नवग्रहमयीश्वरी ॥ १७॥
नवरागकला रम्या नवसङ्ख्या नवेश्वरी ।
दशमी दशदिक्पूज्या दशाशाव्यापिनी रमा ॥ १८॥
एकादशात्मिका चैकादशरुद्रनिषेविता ।
एकादशीतिथिप्रीता एकादशगणाधिपा ॥ १९॥
द्वादशी द्वादशभुजा द्वादशादित्यजन्मभूः ।
त्रयोदशात्मिका देवी त्रयोदशगणप्रिया ॥ २०॥
त्रयोदशाभिधा भिन्ना विश्वेदेवाधिदेवता ।
चतुर्दशेन्द्रवरदा चतुर्दशमनुप्रसूः ॥ २१॥
पञ्चाधिकदशी वेद्या पञ्चाधिकदशी तिथिः ।
षोडशी षोडशभुजा षोडशेन्दुकलामयी ॥ २२॥
षोडशात्मकचन्द्रांशुव्याप्तदिव्यकलेवरा ।
एवंरूपासि देवेशि निर्गुणे तामसोदये ॥ २३॥
त्वया गृहीतो भगवान्देवदेवो रमापतिः ।
एतौ दुरासदौ दैत्यौ विक्रान्तौ मधुकैटभौ ॥ २४॥
एतयोश्च वधार्थाय देवेशं प्रतिबोधय ।
मुनिरुवाच ।
एवं स्तुता भगवती तामसी भगवत्प्रिया ॥ २५॥
देवदेवं तदा त्यक्त्वा मोहयामास दानवौ ।
तदैव भगवान्विष्णुः परमात्मा जगत्पतिः ॥ २६॥
प्रबोधमाप देवेशो ददृशे दानवोत्तमौ ।
तदा तौ दानवौ घोरौ दृष्ट्वा तं मधुसूदनम् ॥ २७॥
युद्धाय कृतसङ्कल्पौ जग्मतुः सन्निधिं हरेः ।
युयुधे च ततस्ताभ्यां भगवान्मधुसूदनः ॥ २८॥
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तौ तदातिबलोन्मत्तौ जगन्मायाविमोहितौ ॥ २९॥
व्रियतां वर इत्येवमूचतुः परमेश्वरम् ।
एवं तयोर्वचः श्रुत्वा भगवानादिपूरुषः ॥ ३०॥