स्कन्ध 10, अध्याय 7: विन्ध्यवृद्ध्यवरोधवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १०.७ सप्तमोऽध्यायः ।
विन्ध्यवृद्ध्यवरोधवर्णनम् ।
सूत उवाच ।
इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः ।
करिष्ये कार्यमेतद्वः प्रत्युवाच ततो मुनिः ॥ १॥